________________
[है० ४ १ ४७] अष्टमः सर्गः।
६२३ दनाकुलमतिनिश्चिन्तः सन्नन्नतमनोग्थशैलाजातु न सनीस्रंसीति च नात्यर्थं पतति च । च पूर्ववाक्यार्थापेक्षया समुच्चये । एतेनास्य नीतिशास्त्रोक्तानुसारित्वाहुर्जेयतोक्ता ॥ द्राकनीकसति दिक्षु दनीध्वस्यन्त आपदि पनीपतति स्म । आपनीपदति मङ्ख चनीस्कन्दत्यमुष्य कटकेम्बुधिभूपाः ॥६०॥
६०. अमुष्य सिन्धुपते. कटके मन शीघ्रप्रयाणैश्चनीस्कन्दतिच्छलचारित्वेन यियासितदिग्विशेषगोपनाय कुटिलं गच्छति आपनीपदति च कुटिलमायाति चेतस्ततो भ्राम्यति सतीत्यर्थः । अम्बुधिभूपा द्वीपवासिनृपा द्राक् दिक्षु चनीकसति स्म मा स्मेदमस्मासुच्छलेन पप्तदिति भयेन कुटिलं गच्छन्ति स्म । अत एव दनीध्वस्यन्ते स्म सैन्यादिनात्यर्थ क्षीणाः । अत एव चापदि विपत्तौ पनीपतति स्मात्यर्थं पेतुः । एतेनास्य सैन्ये चलिते महादुर्गस्था अपि भयान्न सुखेन शेरत इत्युक्तम् ॥ जङ्गमीति च बलैः स बनीभ्रंश्यन्त उच्चशिखराणि गिरीणाम् । जञ्जभत्यहिपतौ परिवैम्भञ्जीति जीर्णकमठोपि च पृष्ठम् ॥६१ ॥
६१. स सिन्धुप॑तिर्बलैर्जगमीति दिग्जयायच्छलचारित्वात्कुटिलं गच्छति । ततश्च गिरीणामुच्चशिखराण्युन्नतशृङ्गाणि बनी - श्यन्ते चानन्तबलसंमर्दैन गिरीणां कम्प्यमानत्वादत्यर्थमधः पतन्ति
१ ए डी द्राकनी. २ ए सी डी मुख्यक'. ३ सी डी स वनी. ४ थी भ्रस्यन्त. ५ डी 'बम्ध्रजी. ६ ए बी पृष्टम् .
१ सीई श्वितः. २ वी नीअसी'. ३ ए बी सीई ति छल. ४ सी कुल. ५ ए बी सी डी पतदि. ६ ए पति वलै०. ७ ए दिग्गया. ८ एडी °णि वनी. ९ सी नीमृश्य'. १० बी भ्रस्यन्ते. ११ ए त्यर्थः म.