________________
[है० ४.१.२७.] अष्टमः सर्गः।
६१५ श्रेथिथ श्लथमिमं किमु हारं श्रेयुरेवमपरेप्यथ न त्वम् । ग्रेथिथैति परिभय॑ वधूः शैश्रन्धुरन्ध्रनरपा भवदर्थम् ॥ ४८ ॥
४८. अन्ध्रनरपा अन्ध्रदेशराजा भवदर्थं हारं शंश्रन्थुः स्वयं गुम्फितवन्तः । किं कृत्वा । वधू. स्वभार्या. परिभर्त्य प्रत्येक संतZ । कथमित्याह । इमं हारं किमु किमिति श्लथं शिथिलं त्वं श्रेथिथ गुम्फितवती । अथाथ वा न त्वमेव हारमेवं लथं प्रेथिथ । गुम्फितवती कि तपरेप्यन्ये मत्यादयोपि हारं श्लथं श्रेथुरिति । अनेनैषां भीम आदरातिशय उक्तः ॥ ग्रेथुरय्यमितिहासमथो जग्रन्थुरद्भुतकथाश्चरितैस्ते । मागधा न खलु देभुरतः शश्रन्धिय स्वकगुणैः कतमं नो ॥४९॥
४९. मगधस्य राज्ञ इमे मागधा मगधराजलोकास्ते तव चरितैः कृत्वाम्यं प्रधानमितिहासम् । इतिहासो यथावृत्तम् । तत्प्रधानः प्रवन्धोप्युपचारादितिहासः । तं वर्णनाविरहेण पुरावृत्तप्रतिवद्धं प्रवन्धभेदं ग्रेथुररचयन् । तथा तकथा अद्भुता रसालंकारैराश्चर्यकारिण्यो याः कथा धीरशान्तनायका गद्यवन्धाः पद्यबन्धा वा सर्वभाषावर्णनारूपाः प्रवन्धभेदास्तांश्च जग्रन्थुः । खलु निश्चयेन न देभुर्न दैम्भं चक्रुरान्तरभक्त्या चरित्यर्थः । अतो हेतो. स्वकगुणैः स्वका गुणाः शौर्याय एव गुणा रेजवस्तैः कृत्वा कतमं नरं नो शश्रन्थिथ न वद्धवान् किं तु सर्वमपि वशीचकर्थेत्यर्थः ॥ १ डी र हेयु° २ ए येथि प. ३ ई शमन्यु'. १ डी नानो भ. २ ई शत्रन्यु:.' ३ सी रिश्यं प्र. ४ सी डी 'तर्य । क.५ सी किमि. ६ डी त्व हेपि. ७ सी डी मब. ८ वी सीसी 'य मु. ९ सी डी भानप्र. १० वी सी दास्वाम. ११ ए दम्म च. १२ ए सी डी रपय.