________________
६१०
व्याश्रयमहाकाव्ये
भीमराजः
पयन्सखनिथ यत्तदोनित्याभिसंबन्धात्तेन वचसाज्ञावचनेन पुण्ड्राः पुण्डदेशराँजा न पिरेन हीणा हृष्टतुष्टास्त्वदाज्ञामङ्गीचक्रुरित्यर्थः । तेरिवेत्यत्र स्मरणं सदपि न विवक्षितं किं तु तत्पूर्वकोनुभव इति कृतास्मरणाः । निलवे "परोक्षा" [३.३.१२] इति परोक्षा ॥ यत्र बभ्रमिथ केशिनमुच्चेर्जेरियोजजरिथापि च कंसम् । भ्रमिथाभिबलि वेमिथ वेदांस्तैत्तिरी ववमिथापि च शाखाम्॥४२॥ फेणियापफणियार्भककेल्या त्रेसिथेषदभितत्रसिथोचैः । गोषु रेजिथ रराजिथ गोपैः स्येमिथापि न च सस्यमिथापि ॥४३॥ केपि नैषु विषयेषु तवाज्ञां जेरुरीश न भयं जजरुश्च । भ्रेमरभ्यटवि बभ्रमुरद्रौ वेमुरम्बु रुधिरं ववमुश्च ॥ ४४ ॥
४२-४४. हे ईश स्वामिन्नेषु विषयेषु देशेषु तवाज्ञामादेश केपि नृपा न जेरुरन्तर्भूतणिगर्थवाजरितवन्तोवज्ञया न विनाशितवन्त इ. त्यर्थः । तथा भयं न जजरुश्च न व्यनाशयंश्च भीता इत्यर्थः । अत एवाभ्यटव्यटवीं लेक्ष्यीकृत्याभिमुखं भ्रमुस्तथाद्रौ बभ्रमुस्तथाम्बु स्वेदजलं वेमुरक्षरन्नित्यर्थः । तथा रुधिरं ववमुश्च । भयातिरेकेण हि खेस्रवणं रक्तवमनं च स्यात् । के ते विषया इत्येष्वित्यनेन ये विषया विवक्षितास्तानाविष्णुः पृथिवीपतिरिति स्मृतिवचनागीमनृपे तत्तदेशसंजातानामच्युतावदातानां वर्णनाद्वारेण ज्ञापयन्तावाहतुर्यो. त्यादि । यत्रेति प्रतिवाक्यं ज्ञेयम् । यत्र वृन्दावनाख्ये देशे बभ्रमिथ १ एत्र विभ्र वीर विन'.
१ ए त्यापिस. २ वी पुण्ड'. ३ ए बी जानः वेडीई जानो न. ४ ए भरम. ५ ए लक्ष्मीक. सी लक्षीक. ६ ए बी सी डी 'दभव' . ए सी डी 'बाह वि. ८ सीटी पम्मीप. ९ बी बाहुतु. १० ए विध