________________
[ है० ३.४.८०.] अष्टमः सर्गः।
५९१ अस्कुन्नात् स्कुनुवानम् । अस्कुनात् स्कुन्वानेन । इत्यत्र "स्तम्भू” [७८ ] इत्यादिना ना नुश्च ॥ क्रीणन्प्रीणन्स्वैर्गुणैः क्ष्मां गृहाणारीस्तेजोभि जमानस्तुदंस्त्वम् । तीर्थ रुन्धे कर्मपाशान्भनज्मीत्यूचे राज्ञा सोथ कुर्वन्सदाज्ञाम् ॥१५॥
१५. अथ सदाज्ञां कुर्वन्स भीमो राज्ञा दुर्लभेनोचे । कथमित्याह । हे भीम आमां गृहाणाङ्गीकुरु । कीढक्सन् । स्वैर्निर्गुणैः शौर्यन्यायादिभिः कृत्वा मां प्रीणन्नत एव क्रीणन्वशीकुवंस्तथारीस्तेजोभिः प्रतापै जमानः सन्तापयन्नत एव तुदन्पीडयन् । अहं तु तीर्थ रुन्ध आँवृणोमि सेव इत्यर्थः । तथा तीव्रतपोनुष्ठानात्कर्मपाशान्मोहनीयादिकर्मबन्धनानि भेनज्मि त्रोटयामीति ॥ व्यातन्वानोश्रूण्यमन्वान एतन्नम्रो भक्त्येत्यब्रवीद्राजपुत्रः । तातासर्जि स्रक्ष्यते सृज्यतेन्यां सर्वां भक्तिं न विदं ते जनोयम्
॥१६॥ १६. राजपुत्रो भीम इत्यब्रवीत् । कीहक्सन् । अश्रूणि नेत्रजलानि व्यातन्वानो समाधिना विस्तारयंस्तथैतद्राजोक्तममन्वानोप्रतीच्छंस्तथा भक्त्या नम्रः । यदब्रवीत्तदाह । हे तातायं मल्लक्षणो जनस्ते तान्यां सर्वा भक्तिमसर्यकात्त्रिक्ष्यते करिष्यति सृज्यते करोति च । न तु न पुनरिदं क्ष्माग्रहणमसर्जि स्रक्ष्यते सृज्यते च ॥ क्रीणन् । प्रीणन् । इत्यत्र "श्यादेः" [७९ ] इति श्ना ॥ गृहाण । इत्यत्र “व्यञ्जनाद्" [८० ] इत्यादिना भायुक्तस्य हे स्थान
आनः॥
१ ए क्रीडन्प्री. २ ए भक्तेत्य'. ३ ए बी ते सन्य. १ ए °त्र "मम्भू. २ ए क्रीडन्व'. ३ ए आरणो' ४ ए शामोह. ५ वी भजन्मित्रो. ६ई वाशा स. ७ए क्रीडन् ।