________________
ध्याश्रयमहाकाव्ये
[दुर्लभराजः]
अटाट्यमाना दुर्लभादिवाया भृशं पुनः पुनर्वा यान्ती तथारार्यमाणेरहमहमिकया दुर्लभदर्शनाय भृशं पुनः पुनर्वा गच्छद्भिलाकरदिता संमर्दैन पीडिता स्वकृशोदरस्तनदर्शनेन राज्ञो रागोत्पादनायोदरस्तनपिधायक वस्त्रं लोकसंमदेवशात्पतन्नारक्षदित्यर्थः ॥
अशाश्यमानं मोमूत्र्यमाणं काप्युज्झितुं शिशुम् ।
असोसूत्र्यत सोसूच्यमाने तस्यागमोत्सवे ॥ ८५॥ ८५. तस्य दुर्लभस्यागमोत्सवे सोसूच्यमाने नान्दीतूर्यनिर्घोषादिनाभीक्ष्णं भृशं वा ज्ञाप्यमाने दुर्लभदर्शनेत्युत्सुकत्वात्कापि शिशुमुज्झितुमसोसूयते प्रायतत । यतोशाश्यमानं भृशमभीक्ष्णं वा भुखानं मोमूख्यमाणं भृशमभीक्ष्णं वा मूत्रयन्तम् ॥
दृशौ मोर्गोनूयमानां नीरङ्गी काप्युदक्षिपत् ।
चङ्गम्यमाणा जङ्गम्यमानां चाग्रेभ्यतर्जयत् ॥ ८६ ॥ ८६. कापि कुलाङ्गना दृशौ प्रोर्णोनूयमानां भृशमभीक्ष्ण वाच्छादयन्ती नीरङ्गी मुखाच्छादकवखाञ्चलमुदक्षिपदुर्लभावलोकनविनस्वादूर्व चिक्षेप । तथा चकम्यमाणा कुटिलं क्रामन्यने पुरो जङ्गम्यमानां कुटिलं गच्छन्ती स्त्रीमभ्यतर्जयञ्च ॥ कण्डूयन्ती । महीयमाना । इत्यत्र " धातोः "[6] इत्यादिना यक् ॥ कालस्यमाना । इस्यत्र " ध्यानादे:०" [९] इत्यादिना यह ॥ पक्षे । भृशं पुनः पुनर्वा लसन्ती ॥ ध्यानादेरिति किम् । भृशमक्षत ॥ एकत्ररादिति
-
१डी मूत्रमा. १ सी डी नव. २ ए बी सी ई त प्रयते । य.
-
-