________________
है३.४.१.] सप्तमः सर्गः ।
५५३ तां रूपाद्यतिशयेन प्रसिद्धां कन्यां महेन्द्रस्वसारं कामयमानोभिलपन् ।
दृष्ट्वा विच्छायितारं तं पणायितृपथे तदा ।
अनुविच्छिन्यभूत्काचित्पणित्री नेष्टवस्तुनः ॥ ७७ ॥ ७७. तदा पुरप्रवेशकाले काचिन्नायिका तद्रूपाक्षिप्तत्वादनुविच्छित्री दुर्लभस्य पश्चाद्यान्ती सतीष्टवस्तुनः पैणित्री व्यवी नाभूत् । किं कृत्वा । पायितृपथे वणिक्पथे हट्टमार्गे विच्छायितारं गच्छन्तं तं दुर्लभं दृष्ट्वा ॥
पुरधूपायितुर्जेता धूपिता नः स्मरो ह्ययम् । इत्थमेनं पनायिव्यां पनिळ्यासीन का तदा ॥ ७८ ॥ ७८. एनं दुर्लभ पनायिन्यां स्तुवत्यां सत्यामर्थात्कस्यां चित्कामिन्यां का कामिन्येनं पनित्री स्तोत्री नासीत् । कथं पनायित्र्यामित्याह । अयं प्रत्यक्षो दुर्लभो हि स्फुटं निश्चितं पुरधूपायितुत्रिपुरदाहकस्य॑ हरस्य जेता स्मरोस्ति । यतः किभूतः। नोस्माकं धूपिता रूपातिशयेनोत्कण्ठारणरणकादिविधानात्संतापकोस्माकं सन्तापकत्वादयं नूनं स्वारिं हैर जित्वा स्वमूर्तिधारी कामो वर्तत इत्यर्थ इत्थम् ।।
शचीकामयितुस्तुल्यं कमित्री कापि तं तदा ।
अन्वर्तितारं खं वालमृतीयित्र्यजुगुप्सत ॥ ७९ ॥ ७९. तदा प्रवेशकाले काप्यन्वतितारमनुयान्तं खं वालमजुगुप्सत
१ सी डी गायतृ. २ डी ल्य कामि .
१ ए न्द्रदुहितर. २ सी डी श्वादयन्ती'. ३ सी पणयित्री. ४ सी डी °णायत. ५ वी सी डी ई न्स दु. ६ डी "स्य . .डी ता स्मा.
सी हरि जि. ९ई त्वा मू. १० डी त्यर्थः ।।.
७०