________________
५४१
[है० ३.३.८१.] सप्तमः सर्गः। विप्रावदन्त । विप्रावदन् । इत्यत्र "विवादे वा" [20] इति वारमने ॥ मिथोनुवदमानाः । अत्र "अनोः" [१] इत्यादिनात्मने ॥ कर्मण्यसतीति किम् । वचोन्ववदन् ॥
राजपुत्रस्य जानानोपतस्थे जनतोन्मुखी। संगच्छमाना संपृच्छमाना संशुश्रुवे तथा ॥ ५१ ॥ ५१. जनता प्रामादिजनौघ उन्मुखी सैन्यसंमुखोपतस्थे डुढौके । यतो गजपुत्रस्य वल्लभस्य जानाना राजपुत्रेण कृत्वा प्रवर्तमाना राजपुत्रे रक्ता सेनान्यमपि राजपुत्रतयाध्यवस्यन्तीवेत्यर्थः । ततश्च ती संशुश्रुवे यथा वृत्तमाकर्णितवती । यतः संगच्छमाना सैन्यैः सह मिलन्ती संपृच्छमाना सैन्यान्प्रश्रयन्ती च ॥
संविदानां तथा संस्खरमाणां विनिवार्य ताम् ।
सैन्या धैर्ये समियाणाः समृच्छन्ते स्म पत्तने ॥५२॥ ५२. तथा कुमारस्य तं मृत्युप्रकारं संविदानां जानतीमत एव संखरमाणां शोकेन विलपन्ती तां जनतां विनिवार्य सैन्याः पत्तने समृच्छन्ते स्म प्राप्ताः । अच्छेरतेा रूपमिदम् । किंभूताः सन्तः । धैर्ये समियाणाः संगच्छमानाः ॥
राज्ञि संपश्यमानेथ शोकपूर्णा विचक्रिरे । ते स्वरानविकुर्वाणा धैर्यात्तत्सर्वमूचिरे ॥ ५३ ।। ५३. अथ राज्ञि चामुण्डराजे संपश्यमाने सैन्याभिमुखं पश्यति ते सैन्याः शोकपूर्णाः सन्तो विचक्रिरे । आक्रन्दनादिकचेष्टाभिनिफलमचेष्टन्तेत्यर्थः । ततश्च धैर्याच्चित्तावष्टम्भमाश्रित्य स्वरानविकुर्वाणा नानाविधान् शब्दानकुर्वाणास्तद्यथावृत्तं सर्वमूचिरे ॥ १ए था शु.