________________
[है० ३.३.४३.] सप्तमः सर्गः।
५२७ मा मृषीष्टेत्यनिद्रायद्गुर्वाशीष्वपि शात्रवम् । ताननिद्रायमाणान्द्राक्श्रुत्वामृत नु मूर्छितम् ॥२३॥ २३. अनिद्रावन्तो निद्रावन्तो भवन्ति "डांचोहितादिभ्यः पित्" [३.४.३०] इति क्या निद्रायमाणा न तथा ये तानुद्यमिनः कुमारान् श्रुत्वा शात्रवमरिवृन्दं द्राड् मूर्छितं महाभयाकुलत्वेनाचेतनं सदमृत नु मृतमिवाभूत् । कास्वपि सतीषु । अनिद्रायन्तस्तपोध्यानादौ जागरूका ये गुरवस्तेषामाशी:पु । कथमित्याह । मा मृषीष्टेति कुशली भूया इत्यर्थ इति ॥
अरिपड्वर्ग व्यनयन्त । इत्यत्र "कर्तृस्य" [४०] इत्यादिनात्मने ॥ कर्तृस्थेति किम् । आर्ततां व्यनयन् । अमूर्तेति किम् । कर्फ व्यनयन् ॥
शीयमानस्य । इत्यत्र “शदेः शिति" [१] इत्यात्मने ॥
अमृत । मा मृषीष्ट । त्रियमाणस्य । इत्यत्र "म्रियतेः" [२] इत्यादि नात्मने ।
अनिद्रायमाणान् । अनिद्रायत् । इत्यत्र "क्यको न वा" [३] इति वात्मने ।
नाद्योतिष्ट तथानीनां छन्दसामधुतन च ।
नारोचिष्टादिपुंसां वा यथैषामरुचत्रयी ॥२४॥ २४. स्पष्टः । किं तु । अग्नीनां दक्षिणाग्निगार्हपत्याहवनीयानाम् । १६ त्रयम् ॥
-
-
१सी डाउलोहि. २ बी तिक्यिलि. ३ एकि यनि. ४ डी सद् मृतमि. ५ डी तीष्वप्यनि. ६ सी जागुरू. ७ ए गुरुव.८ई शीवपि । क. ९ सी *पद व्य. १० ए°ने । XX मनि'. ११ वीम् । सीय.१२ सी क्युटने व.