________________
५२१ व्याश्रयमहाकाव्ये चामुण्डराजः ] ___ राज्ञो दुर्लभराजोभूत्पुत्रोन्य इति तर्कभूः ।
नोदयुलासुरः कोपि खं न्ययुनेह किं हरिः॥ १३ ॥ १३. राज्ञो दुर्लभराजो नामान्यो द्वितीयः पुत्रोभूत् । कीदृक् । इति तर्कभूः । एवंविधस्य लोकवितर्कस्य स्थानम् । एवं लोकैर्वितय॑माण इत्यर्थः । कथमित्याह । यस्मादिह दुर्लभराजे सत्युद्भुतभयातिरेकेण कोप्यमुरो नोदयुत नोदयच्छन्न कोपि दैत्यो मस्तकमुत्पाटितवानित्यर्थः । तत्किमिह दुर्लभे हरिर्विष्णुः स्वमात्मानं न्ययुक्त व्यापारितवान् । दुर्लभराजरूपी किमयं हरिरभूदित्यर्थः । हरौ द्युत्पनेसुरः कोपि नोद्युत इति ॥
प्रयुञ्जन्यज्ञपात्राणि परिक्रेप्यत आशिषः । बुद्ध्या विक्रेप्यते शुक्रं सतोवक्रेप्यते गुणैः ॥ १४ ॥ शैलान्विजेष्यते स्थान्नारीन्पराजेष्यते वलैः ।
बैः संक्ष्णविप्यते प्रज्ञा दैवज्ञैरित्यशंस्यसौ ॥ १५ ॥ १४,१५. असौ दुर्लभो देवोतिषिकैर्जन्मकुण्डलिकास्थशुभप्रहपातविचारणयेत्येवंविधोशंसि कथितः । यथा यज्ञपात्राणि यागभाजनानि प्रयुलन्यज्ञे व्यापारयन्यज्ञं कारयन्नित्यर्थः । असावाशिपों यष्टादिप्रयुक्ताशीर्वादान्परिफ्रेप्यते संग्रहीष्यतीत्यर्थः । तथा बुद्ध्या कृत्वा शुक्र विक्रेप्यते पराजेप्यत इत्यर्थः । तथा गुणैः कृत्वा सतः साधूनवक्रेप्यत आवर्जयिप्यतीत्यर्थः । तथा स्थाना स्थैर्येण वलेन वा कृत्वा शैलान्विजेप्यते । तथा वल: सैन्यैः कृत्वारीन्पराजेप्यते । १सी रो.
१ ए करमार. २ डी रूपः कि. ३ डी ज्योति'. ४ी नादि ५ सी सान्य.
-
-