________________
५१० व्याश्रयमहाकाव्ये
[मूलराजः] सोगात्पुरी श्रीदसमानधर्मालकासधर्मामसमानरूपः अन्वक्सरूपस्तनयोप्यमुष्य सब्रह्मचारी नलकूबरस्य ॥ १०२ ॥
१०२. असमानरूपो निरुपमरूपः स राजा श्रीदसमानधर्मा महचिकत्वादिना धनदतुल्यः सन्नलकासधर्मा सर्वयुपेतत्वाद्धनदपुरीतुल्यां पुरीमणहिलपाटकमगात्तथान्वञ्चोनुचरा अपि सरूपा रूपनेपथ्यावस्थादिभिः सदृशा यस्य सोमुष्य मूलराजस्य तनयोपि पुरीमगान् । कीहक्सन् । नलकूबरस्य धनदपुत्रस्य सब्रह्मचारी शौर्यादिगुणैस्तुल्य इत्यर्थः । यथा श्रीदा नलकूबरान्वितोलकां यात्येवं मूलराजश्चामुण्डराजान्वितोणहिलपुरीमगादित्यर्थः ।।
सधर्माम् । सरूपः । अत्र "समानस्य" [१४९] इत्यादिना सः ॥ अन्ये तु धर्मादिषु नवसु वचनान्तेषु विकल्पमिच्छन्ति । सधर्माम् । समानधर्मा । सरूपः समानरूपः ॥
-
सब्रह्मचारी । इति “सब्रह्मचारी" [१५०] इत्यनेन निपात्यते ॥ बुद्ध्या सदृक्षं सदृशं प्रतापैः सुतं नृपः शक्रसदृग्यधित्सत् । स्वर्गादनन्यादृश आत्मराज्येन्यादृक्षमेतन्न हि तादृशानाम् ॥१०३॥
१०३. स्पष्टम् । कि तु। न्यधित्सत्स्थापयितुमैच्छन् । स्वर्गादनन्यादृशे महा स्वर्गतुल्ये । युक्तं चैतन् । हि यस्माद्धेतोरेतत् खानुरूपे पुत्रे स्वराज्यस्य निधित्सनं तादृशानां मूलराजतुल्यानां महाराजाना नान्यादृक्षं नासदृशमुचितमेवत्यर्थः ॥
१५ सी राजेन्या'.
१ सी तुल्या पु. २ ए सी डी हिलपा. ३ सी सह. ४ ए सी 'सत्य'. सीरी। स. ५ ए सी स्वानरू. ६ ती नान्यास'.