________________
व्याश्रयमहाकाव्ये
[ मूलराजः ]
अनायुधाज्यै कुवदं कदश्वदृतं ददानं कुरथं महारान् । अकद्रथोकद्वद आत्मजस्ते तं मुष्टिभिः कत्तृणवत्पिपेष ।। ९४ ।।
९४. कदश्वदृप्तं कुत्सिताः कुलक्षणादिना निन्दिता येश्वास्तैरपि दृप्तमज्ञत्वाद्गर्विष्ठं कुरथं कुलक्षणनिन्दितरथं तं लाटं ते तत्रात्मजो मुष्टिभिः कृत्वा कत्तृणवत्कुत्सितं तृणं कत्तृणं रोहियाख्या तृणजातिस्तदिव सुखेन पिपेष परासुं चकारेत्यर्थः। किंभूतम् । अनायुधाज्यै । अनायुधास्त्ररहिता याजिर्युद्धं तस्यै । मल्लविद्यार्थं कुत्सिता वदा वक्तारो यस्याज्ञत्वात्तं मूर्ख - मपि । अपिरत्र ज्ञेयः । बाहुयुद्धकुशलमपीत्यर्थः । प्रहारान्मुष्टिघातान्ददानम् । कीदृगात्मजः । नास्ति कद्रथः कुत्सितो रथो यस्य सोकद्रथ: । यद्वा । कुत्सितो रथो यस्य स कद्रथो न तथाकद्रथस्तथानायुधाज्यै कुत्सितो वैदः कद्वदो न तथा । यद्वा । कुत्सिता वदा वक्तारो यस्य स कद्वदो न तथा बाहुयुद्धे कुशलः सन् ॥
1
५०४
अनायुध । इत्यत्र “भन्स्वरे” [ १२९] इति नमोन् ॥
कदश्व । इत्यत्र “कोः” [१३०] इत्यादिना कत् ॥
कद्रथः । कद्वदः । इत्यन " रथवदे” [१३१] इति कत् ॥ तत्पुरुष एवेच्छ न्त्येके । अन्यत्र कुरथम् । कुवदम् ॥
कत्तृण । इत्यत्र “तृणे जाती” [ १३२ ] इति कत् ॥ कश्रीणि यत्कापथकौपुरुप्यकाक्ष्याणि लाटस्य तदाभवन्न । किंत्रिद्विषामप्सरसां ततोभूदकापतिः कापुरुषेतरोसौ ॥ ९५ ॥
९५. यद्यस्माद्धेतोस्तदा युद्धकाले कत्रीणि कुँ कुत्सितानि कानि वा कुत्सितानि त्रीणि तस्य लाटस्य क्षत्रियोत्तमत्वान्नाभवन् । कानि त्रीणी १ सी 'मावा'. २ सी वद क
३ बी कुत्सि
४ ए सी श्रीणित्या.