________________
ब्याश्रयमहाकाव्ये
[मूलराजः]
लाटो दक्षिणः पन्था दक्षिणापथस्तस्मिन्वर्तमानोधिकाः कण्ठा यस्य सोधीकण्ठो दशकन्धर इवाज्ञायि रावण इवाजय्यो ज्ञात इत्यर्थः । तस्मात्पराद्यद्भयमेष एवैषामिह लोकेपि निरुपमो नरकः संपन्न इति परलोकभाविनरकचिन्तया किमिति तात्पर्यार्थः ।। विश्वामित्रः । अत्र "ऋपौ" [७९] इत्यादिना दीर्घः ॥ वैश्वानरः । अत्र "नरे" [८०] इति दीर्घः ॥ विश्वावसु । विश्वाराह । इत्यत्र "वसुराटोः" [८१] इति दीर्घः ॥ रौदिति विकृतिनिर्देशादिह न स्यात् । विश्वराज(जः)॥
दन्तावलान् । इत्यत्र “वलचि" [८२] इत्यादिना दीर्घः ॥ अपित्रादेरिति किम् । पैतृवल्यम् । मातृवल्यम् ॥
सप्तचितीकवत् । इत्यत्र "चितेः कचि" [८३] इति दीर्घः ॥
दानाकर्णैः । अत्र "स्वामिचिह्नस्य" [८४] इत्यादिना दीर्घः ॥ विष्टादिवर्जनं किम् । विष्टकर्णैः । अष्टकर्ण । पञ्चकर्ण । भिन्मकर्णैः । छिसकणैः। छिद्र कर्ण । खुवकर्ण । स्वस्तिककर्णकः ॥
[नह?] निरुपानहः॥ वृत्।नीवृतः॥ वृष । प्रावृषः ॥ व्यम् । मर्मावित् ॥रुच् । नीरुग्॥ सह । अनृतीपहः ॥ तन् । परीततः । अन्न "गतिकारकस्य" [५] इस्यादिना दीर्घः ॥ केचित्तु रुजाविच्छन्ति न रुचौ । तन्मते नीरुगिति रूपं रुजेनिरुगिति तु रुचेरेवं च रुजिरुच्योर्मतभेदेन विकल्पः सिद्धः ॥
नील्लेद । इत्यत्र "घमि" [८६] इत्यादिना दीर्घः ॥ कचित्र स्यात् । प्रहारैः ॥ कचिद्विकपः । प्रतीहारम् प्रतिहार ॥ कचिद्विषयभेदेन । प्रासाद गृह । प्रसादोनुग्रहः ॥ बहुलवचनादनुपसर्गस्याप्यघम्यपि च स्यात् ।
१बी णः पथा द. २ सी मित्र । अ. ३ ए सी राशिरिति. ४ सीम् । स'. ५ ए सी ण । भि. ६ ए सी पहेः । स. ७ ए सी डी गृहः । प्र. ८ ए सी स्याषप्य'.