________________
[है० १.१.१.]
प्रथमः सर्गः ।
अर्हमित्यक्षरं ब्रह्म वाचकं परमेष्ठिनः ।। सिद्धचक्रस्य सद्धीजं सर्वतः मणिदध्महे ॥ १ ॥ १. अहमिति वर्णसमुदायं सर्वत सर्वस्मिन्क्षेत्रे काले च प्रणिध्महे । आत्मानं ध्यायकं वीजमध्ये न्यस्तं संश्लेपणाहकाध्येयैः सर्वतो वेष्टितं चिन्तयामः । यद्वा । अहंशब्दवाच्येन भगवताहता ध्येयेनाभिन्नमात्मानं ध्यायकं ध्यायाम इत्यर्थः । कीदृशम् । निर्मुक्तात्मकत्वात्पग्मे पदे सिद्धिलक्षणे तिष्ठति । "परमाकित्" इत्योणादिके कितीनि "भीरुठानादयः" [२.३.३३.] इति यरवे गणपाठसामर्थ्यात्मप्तम्या भलुपि परमेष्ठी तस्य परमेष्ठिनो भगवतोर्हता वाचकं प्रतिपादकमत एवाक्षरं ब्रह्माभिधानाभिधेययोग्भेदोपघारादचलं ज्ञानं परमज्ञानस्वरूँपपरमेष्ठिवाचकमित्यर्थः । यद्वा । अक्षरमिति भिन्नं विशेषणं ब्रह्मेति च । ततोक्षरं शाश्वतमेतदभिधेयस्य भगवत. परमपदप्रामत्वेनाविनश्वरत्वाद्ब्रह्म च परमज्ञानम्वरूपम् । यद्वा । अक्षरस्य मोक्षस्य हेतुत्वादरं ब्रह्मणो ज्ञानस्य हेतुत्वाञ्च ब्रह्मात एव च सिद्धचक्रस्य सिद्धा विद्यासिद्धादयस्तेषां चक्रमिव चक्रं यत्रकविशेषस्तत्र सत् आद्यत्वेन प्रधानं बीजं तत्त्वाक्षरम् । स्वर्णसिद्ध्यादिमहासिद्धिहेतोः सिद्धचक्रस्य पश्च वीजानि वर्तन्ते तेष्विदमायक्षगमित्यर्थः । तेन स्वर्णसिद्ध्यादिमहासिद्धीनामिदं मूलहेतुरित्युक्तम् । अत एव चेदं ध्यानाहमित्यर्थः । नन्वईमित्यस्य योभिधेयः स एव प्रणिधेयत्वन मुख्यः । अहमिति शब्दस्त्वहद्वाचकत्वेन प्रणिधानाईत्वाद्गौणः । गौणं च मुख्यानुयायीति मुख्यस्यैव प्रणिधानं कर्तुमुचितम् । एवं चाहमित्यक्षरं ब्रह्मवाच्यं श्रीपरमेष्ठिनं सिद्धचक्रादिवीजेन सर्वतः प्रणिध्मह इति कार्य स्यात् । अत्र चैवमन्वयः। सिद्धचक्रादिवीजेनाहमित्यनेन वाच्यं परमेष्ठिनं प्रणिदध्मह इति । नैवम् ।
१ सी डी ता ध्ये”. २ सी डी ध्याया'. ३ एफ °छी अस्य ४ सी डी रूप प°. ५ सी मेतत. एफ मेव त'. ६ सी भव. ७ सीडी नहे. ८ सी डी धमक्ष. ९ वी सी डी एफ र्थः । एते'. १० सी डी सिवादि.