________________
[है०३.२.३४.] षष्ठः सर्गः । स्तोष्पतेरपीन्द्रस्यापि दिवस्पतित्वमैन्द्रं पदं हि स्फुटं हरेतापनेतुं शक्तः संभाव्यते । कासु सतीषु । होतुःसुतहोतुरन्तेवास्युद्यताशी:ध्वपि ऋत्विक्पुत्रऋत्विक्शिष्याणा सप्रभावेष्वप्याशीर्वादेषु । यतो दीर्घहस्तः प्रलम्बशुण्डः । अलक्षणं ह्येतत् । योपि दीर्घहस्तः प्रलम्बपाणिः स्यात्स दिवस्पतित्वतुल्यमुन्नतं फलादि वस्तु हरतीत्युक्तिलेशः ॥ ईदृग्गजो भर्तृगृहेस्थिदन्तो हन्यापितुःशिष्यपितुस्तनूजान् । पितुःस्वसारं स्वसृपत्यपत्यं स्वसुःपति नाम पितृष्वमृणाम् ॥३१॥ ___३१. ईदृग्गजो भर्तृगृहे वर्तमानो हन्यादुच्छेत्तुं शक्तः संभाव्यते । कान् । पितुःशिष्यपितुस्तनूजाम् जनकान्तेवासिनो जनकपुत्रांश्च । तथा पितुःस्वसारं जनकभगिनीं च तथा स्वस्पंत्यपत्यं भगिनीभर्तृसन्ततिं च तथा स्वसुःपतिं भगिनीभर्तारं च तथा पितृष्वसृणां जनकभगिनीनां नामापि । अपिरत्र ज्ञेयः । यतोस्थिवन्निःश्रीकौ दन्तौ यस्य सः । सर्वसंबन्धिजनक्षयहेतुः । अपलक्षणं घेवत् ।। ताम्यन्ति होतुःस्वसूयुक्तहोतृवनात्मजा याज्यगृहागते हि । मातापितृभ्यां सममेव होतापोतार ईदृग्गज ओतुनेत्रे ॥ ३२ ॥
३२. ईदृग्गज ईदृशे द्विपे याज्यस्य यजमानस्य राजादेहमायाते सति होतुःस्वसृभित्विग्भगिनीभिर्युक्ता होतृस्वस्रात्मजा ऋत्विग्मेंगिनीपुत्रा येषां ते होनापोतारो होतारः पोतारश्च ऋत्विग्विशेषा मातापितृभ्यां सममेव सहैव हि स्फुटं ताम्यन्ति याज्यस्य संपत्क्षयेण दक्षिणादिलाभाभावात्खिद्यन्ते । यत ओतुनेत्रे मार्जारपिङ्गलाक्षे । संपत्क्षयहेतु दमलक्षणम् ।।
१ ए सी लक्ष्यण. २ ए पाणि स्या'. सी पाणि स्या'. ३ ए सी शक्तसं. ४ सी पत्य ५ वी मिदृत्वि. ६ ए सी डी 'स्वमात्म'. ७ ए सी मिटिनी'. ८ ए बी सी डी हि स्फट ९ डी सक्षेपेण.