________________
४५८
व्याश्रयमहाकाव्ये [चामुण्डराजः] सादस्तत्र जातो महाकालिकावरेजश्च गौरीप्रसादे जातश्च स प्रसिद्धः कोल्हापुरेश्वर. कोल्लापुराख्यमहापुराधिपः पद्मरागॉल्लोहितकमणीन्प्रैषीत् । कीदृशान् । सारसिजं वनं नु रक्तत्वादिगुणे रक्तोत्पलसत्कवनतुल्यान् । कोल्लापुरे ह्यतिश्रष्टाः पद्मरागाः स्युः । यतः किंभूतस्य ते । अरय एव मनोजः कामस्तत्र शंभोविनाशकस्येत्यर्थः । शंभोहि पूजार्थं शंभुभक्त: सारसिजं वनमिव पद्मरागान्प्रेषयति ।। अखं नवं मानसिनं वरैणक्षरेजपङ्क क्षरजाग्नितेजः । इन्द्राण्युरोजोचितमद्रिजोरसिजोचितं ढोकयति स्म कीरः॥२३॥ __ २३. क्षरो मेघो जलं वा तत्र जातो याग्निविद्युद्वडवानलो वा तद्वत्तेजा यस्य हे क्षरजाग्नितजो वरा: सुजात्या य एणास्तेषां यः क्षरो मूत्रं तत्र जातो य: पङ्कस्तं जात्यकस्तूरिकामित्यर्थः । कीरः कश्मी राधिपो ढोकयति स्म त्वदर्थ प्रेषितवान् । कीदृशम् । नवमग्रेवनास्त्रेभ्यः पुष्पेभ्यो गन्धोत्कृष्टत्वेनात्यन्तं कामिनां वशीकारकत्वादभिनवं मानसिजं का दर्पमस्त्रं शस्त्रमिव । अत एवेन्द्राण्युरोजाचितमद्रिजोरसिजोचितं च । शचीगौरीतनयोर्मण्डनाय योग्यम् । कश्मीरेषु हि मृगविशेषमूत्रात्प्रकृष्टकस्तारेका स्यात् ॥
तोयेशयम् तोयशैय । भन्तेवासिनम् अन्तवासी । वनवास वनवास । इत्यत्र "श्य" [२५] इत्यादिना वा सप्तम्यलुप् ॥ अकालादिति किम् । सायाह्नशयानि ॥
वर्षेज वर्षज । क्षरेज क्षरंज । वरेजः वरजः । अप्सुज अब्जानि । सरसिजम् सरोज । शरेज शरज । उरसिज उरोज । मानसिजम् मनोजें । इत्यत्र “वर्ष" [२६] इत्यादिनी वालुप ॥
१बी डी रागालो'. २ ए सी भक्त सा. ३ ए सी नाख्येभ्यः. ४ बी पुष्फेभ्यो'. ५ ए सी रत्वा . ६ ए बी सा च । सची, ७ सी डी शय. । भ. ८ सी सम्य'. ९ बी रज. । व १० बी नाल.