________________
[है० ३.२.२५.]
षष्टः सर्गः।
४५७
तोयेशयं तोयशयायमीशान्तेवासिनं वा विनयान्तवासी। त्वां मन्यते यो वनवासभर्ता स्वर्ण वनेवासकरोत्र तस्य ॥ २० ॥
२०. हे राजन् यो वनवासभर्ता वासयति अचि वासो वने वासो वनवासा देशभेदस्तस्य भर्ता विनयान्तवासी विनयेन प्रणामादिना शिष्य इव संस्त्वां मन्यते । कमिव तोयेशयं विष्णुमिवे तोयशयाम्यं वासुदेवाप्र घलभद्रमिवेशान्तेवासिनं वा परशुराममिव वा । तस्य राज्ञः संवन्ध्यत्र प्रत्यक्षदेशे स्वर्ण बनेवासकरो वनवासदेशस्योपभोगदण्डोस्ति । वनवासदेशे हि स्वर्ण बहु स्यात् ।। अब्जान्यसायाशयानि वर्षेजसेवयातानि शरेजदेवात् । स वर्षजे दण्ड इमान्यदात्तप्सुनाक्ष राजा शरजाचलस्य ॥२१॥
२१. हे अप्सुजाक्ष कमललोचन स प्रसिद्धः शरजाचलस्य शरे जातः शरजः स्कन्दस्तस्य योचलो देवगिरिस्तस्य राजेमानि प्रत्यक्षं प्राभृतीकृतान्यजानि वर्षजे सांवत्सरिके दण्डे से तुभ्यमदात् । किंभूतानि । वर्षेजसेवया वर्षे जाता या सेवा तया शरेजदेवात्स्कन्दादाप्तान्यत एव न सायाहे प्रदोषे शेरते संकुचन्त्यसायाशयानि निश्यपि विकखराणि ॥ सरोजवासावरजो महाकालिकावरेजश्च स पद्मरागान् । मैषीद्वनं सारसिज-नु कोल्लापुरेश्वरस्तेरिमनोजशंभोः ॥२२॥
२२. सरोजे वासो यस्याः सा सरोजवासा लक्ष्मीस्तस्सा वरः प्र
१ ए सी ते योग. २ए मात्रदा सी मादानदा'.
१ सी न्यमे । क. २ डी व बातो. ३ बी "मवे'. ४ डी स...३.. ५ सी "रेमादे. ६ ए सी कसरा.