________________
४४७
[ है० ३.२.४.] षष्ठः सर्गः । मियोपद्धः स निशम्य पार्थवृत्तान्युपव्यासमुपेशगेहे । किमपतूणेन किमूपापं गुरो रणाज्ञां हि विनेति दध्यौ ॥६॥
६. स कुमारः प्रियमुपवृद्धं ज्ञानवृद्धादिसमीपं यस्य स तथा सन्नुपेशगेहे रुद्रप्रासादसमीपे कथामण्डपादावुपव्यासं व्याससमीपे पार्थवृत्तानि शत्रुजयादिविषयाण्यर्जुनचरितानि निशम्याकर्ण्य दध्यावचिन्तयत् । किमित्याह । गुरोः पितू रणाज्ञां युद्धविषयादेशं विना हि स्फुटमुपतूणेन निषङ्गयोः सामीप्येन किमु तथोपचापं धनुःसामीप्येन च किमु । यावपितू रणाज्ञो न स्यात्तावनिरर्थकत्वाद्धनुर्विद्याभ्याससूचकेन रणार्थ पार्श्वस्थेन तूणद्वयेन चापेन च मम न किंचिदिति पूर्वमहापुरुषावदांताकर्णनोद्भवातिरिक्तरणोत्साहादचिन्तयदित्यर्थः ॥
उपप्राच्यसंस्कारम् । उपवृद्धं सेवमानः। उपवृद्धं स्पृहयन् । उपवृद्ध भक्तः । इत्यत्र "अम्" [२] इत्यादिना स्थारैम् ॥ अव्ययीभावस्येति किम् । पार्थवृत्तानि ॥ तसंवन्धिनः स्यादेरिति किम् । प्रियोपवृद्धः ॥ अत इति किम् । भधिस्त्रि ॥ अपञ्चम्या इति किम् । उपाक्षात् ॥ किमुपचापम् किमूपतूणेन । इत्यत्र “वा तृतीयायाः"[३] इति वाम् ॥
उपन्यासम् उपेशगेहे । अत्र "सप्तम्या वा" [५] इति वाम् ॥ मुगूर्जरं हेतुरनेकभारद्वाजं वरो गीतगुणस्त्रिगङ्गम् । स्थितोधिसद्भक्त्युपगूर्जरेन्द्रे स्वरीशितः पुत्र इवैष रेजे ॥७॥
७. एष कुमारः स्वः स्वर्गस्येशितुः स्वामिनः शक्रस्य पुत्र इव
-
१ ए सी निसम्य. २ सी चाप गु. ३ ए सी सम्।
१ए सी गयो सा. २ ए सी शान स्या'. ३ सी णार्थ पा. ४ डी किम् । .......... पार्थ. ५वी दानाक'. ६ ए सी रन् ॥ . ७ए सी सी स्वः सर्गः.