________________
४४२
व्याश्रयमहाकाव्ये [मूलराजः] वर्षाशरन्मेघतुल्यम् । क सति ययौ । विधौ चन्द्रे । कीदृशे । अतिमघापेश्लेपामघानक्षत्रातिकान्ते । अस्य च विशेषणस्याप्रावेशिकनक्षत्रातिक्रमस्योपलक्षणत्वात्पूर्वफल्गुन्या अप्यप्रावेशिकत्वात्तामप्यतिक्रान्ते । उत्तरैफल्गुनीस्थ इत्यर्थः । उत्तरॅफल्गुनी हि स्थिरस्वभावत्वात्प्रावेशिकनक्षत्रम् । अश्लेषा क्रूरस्वभावत्वेन मघापूर्वफल्गुन्यौ चोग्रस्वभावत्वेनानिष्टफलत्वादप्रावेशिक्यः । यदुक्तं रत्नमालायाम् ।
शुभः प्रवेशो मृदुभि क्षैः क्षिप्रैश्चरैः स्यात्पुनरेव यात्रा।
उप्रैर्नृपो दारुणभैः कुमारो राज्ञी विशाखासु विनाशमेति ॥ उग्रादिभिभैः प्रवेशे नृपादिविनाशमेतीति संबन्धः । अश्लेषामघापूर्वफल्गुनीरतिक्रान्ते चन्दौ मूलराजस्याष्टमो नवमश्वेन्दुरशुभोपयातीति हेतोश्वातिमधाश्लेष इति विशेषणं विधोः॥
भ । कृत्तिकारोहिणी ॥ ऋतु । प्रावृष्टत् । अन्न “भर्तु" [१६२] इत्यादिना भमृतेश्चानुपूर्व प्राग्निपतेत् ॥ तुल्यस्वरमिति किम् । मघाश्लेषे । प्रीष्मवसन्तयोः॥
बहुव्रीहौ । पञ्चप ॥ द्विगौ । अष्टशत्या । द्वन्द्वे । द्वौ च दश च द्वादश । इत्यत्र "संख्या समासे" [१६] इति संख्यानामनुपूर्व पूर्व निपतेत् ॥ शार्दूलवि. कीडितं उन्दः ।
नवमः पादः समर्थितः ॥ इति श्रीजिनेश्वरसूरिशिष्यलेशाभयतिलकगणिविरचितायां श्रीसिद्धहेमचन्द्राभिधानशब्दानुशासनध्याश्रयवृत्तौ पञ्चमः सर्गः समर्थितः ॥
१बी तिमेपा. २ यी फाल्गु. ३ वी रफाल्गु. ४ वी "रफान्गु. ५.बी फाल्गु. ६ ए सी डी वक्ष. क्षि. ७ वी दि विना. ८ थी फागु. ९बी पू. १० वी नामानु'.