________________
है• ३.१.१६१.] पक्षमः सर्गः। सखिवर्जनं किम् । सुतसखे । सखिसुत ॥ एकमिति किम् । युगपदनेकस्य पूर्वनिपाते प्राप्त एकस्यैव यथा पूर्व निपातः शेषाणां तु कामचार इति प्रदर्शनार्थम् । शवदुन्दुभिवीणाभिः। वीणादुन्दुभिशहाः। वीणाशङ्खदुन्दुभीन् ।
विनायकस्कन्दगुरो पुण्यैः फाल्गुनचैत्रयोः । ब्राह्मणक्षत्रविद्रः प्रेक्ष्यसे ग्रीष्मदोलयोः ॥ १४१ ।। १४१. विनायकस्कन्दगुरो हे गणेशकार्तिकेययोः पित: फाल्गुनचैत्रयोर्ये ग्रीष्मदोले ग्रीष्मपर्वदोलापर्वणी तयोर्ब्राह्मणक्षेत्रविद्वैः क. र्तृभिः पुण्यैः कृत्वा त्वं प्रेक्ष्यसे । फाल्गुने पौर्णमासी ग्रीष्मपर्वोच्यते । यतोत्र काष्ठखड्गव्यग्रकरैर्वालकैः शिशूनां महासन्तापकत्वेन ग्रीष्मतुल्यत्वाद्वीष्मा ढुण्डाराक्षसीकृतोपद्रवा उत्तार्यन्ते। यदुक्तं भविष्योत्तरे । पुरा रंघुर्नाम राजासीत् । तस्य राज्ये वर्तमाने दुण्ढा नाम राक्षसी बभूव । सा वालानामुपद्रवं कुरुते। ततो विरागयुक्ताः सदुःखाः सर्वेपि पौरा नृपमूचुः । देव तव राज्येस्मदालानां महानुपद्रवो भवति । तत्रायव । ततो राजा गुरु वशिष्ठं सप्रश्रयमुवाच । कोसावदृष्टो बालानामुपद्रवकारी । तच्छ्रुत्वा वशिष्ठ ऊचे । देव ढुण्डेति नाम राक्षसी तपःप्रभावाल्लब्धवरा वालेभ्योन्यैरवध्या। अतः सा बालान्पीडयति । तदद्य फाल्गुने पूर्णिमायाः ।
अस्या निशागमे पार्थ संरक्ष्याः शिशवो गृहे । गोमयेनोपसंलिप्ते सचतुष्के गृहाङ्गणे। आकारयेच्छिशून्प्रायः खड्गव्यग्रकरानरान् ॥ १ ॥
१ए सी डी एवमि. २ ए सी न्दुभिरीन् ।॥. ३ वी १४१ हे वि. ४ ए सी डीणी . ५ ए सी क्षत्रवि . ६ ए सी गुनै पौ. ७ सी व्ययम. ८ सी यने। य. ९ सी रघूनाम. डी रघुनामा रा. १० वी वसिष्ठ'. ११ ए सी शिवायो.