________________
[है० ३.१.१५७.] पञ्चमः सर्गः।
४३७ ब्रह्मादीनां त्वमन्तादी तवाद्यन्तौ न कश्चन।।
अग्नीषोमौ वायुतीयाद्याश्च ते तिलमाषवत् ॥ १३७ ॥ १३७. ब्रह्मादीनामादिपदाद्विष्ण्वादीनामन्तादी संहारांत्सर्जनाच निधनोत्पत्तिकारणं त्वम् । यदुक्तम् ।।
ब्रह्मादीनपि भगवंस्त्वमेव संसृजसि संहरसि चैव । इति । तव त्वाद्यन्तावुत्पत्तिविनाशहेतुरनादिनिधनत्वान्न कश्चन । उक्तं च।
अनादिनिधनं देवं जगत्कारणमीश्वरम् । इति ॥ अतश्चाग्नीषोमौ वह्निदेवतासोमदेवते वायुतोयाद्याश्च वायुदेवतांजलदेवताद्याश्चाद्यपदादेवतादयश्च ते तव तिलमाषवत्तिलमाषा इवास्पास्त्वदंशमात्रमित्यर्थः ॥
स्कन्दश्रीदसुतसखे त्यक्त्वा सखिमुतादिकम् । यस्त्वां ध्यायेत्रिलोक्यां स्यादस्त्रशस्त्रैः स दुर्जयः ॥१३८॥ १३८. स्कन्दश्रीदौ कार्तिकेयधनदौ सुतेसखायौ यस्य हे स्कन्दश्रीदसुतसखे हे शंभो सखिसुतादिकमादिपदादादिकं संसार. बन्धनं त्यक्त्वा यस्त्वां ध्यायेत्स नरखिलोक्यामनाण्यानेयादीनि दिव्यायुधानि शस्त्राणि खड्गादीनि द्वन्द्वे तैर्दुर्जयः स्यात् । केनौप्यसौ न जीयेतेत्यर्थः ॥
१ सी ना दी त. २ ए सी डी तसुखे. १ ए सी रात्र. २ ए सी डी तादा'. ३ बी चाप. ४ ए सी डी "दूतदे'. ५ वी तसुखा. ६ सी धने त्य'. ७ सी नाप्यासौ.