________________
।
अन्न "प्रह
है० ३.१.१५६.] पञ्चमः सर्गः।
४३५ सोस्युद्यतः पद्मनाभो नूयतासिभिराकृतः । इन्दुमौलिं शूलपाणि स्पृष्ट्वा नत्वेति तुष्टुवे ॥ १३३ ॥ १३३. स्पष्टः । किंतु । उद्यत ऊर्चीकृतोसियेन सोस्युद्यतः । प्रजापालकत्वात्पद्मनाभी नु विष्णुरिव । इन्दुमौलि सोमनाथलिङ्गं स्पृष्ट्वा हस्तेन संस्पृश्य ॥
उद्यतासिमिः अस्युद्यतः । अत्र "प्रहरणात्" [१५४] इति क्तान्तं वा प्राग्निपतेत् ॥
इन्दुमौलिम् । पमनाभः ॥ प्रहरणात् । शूलपाणिम् । अन्न "न सप्तमी" [१५५] इत्यादिना सप्तम्यन्तस्य न प्राग्निपातः ॥
यस्त्वां श्रीकण्ठ नौत्यातः कण्ठेगडुररुःशिराः ।
भवत्यगडुकण्ठः सोशिरस्यरुरपि क्षणात् ॥ १३४ ॥ १३४. श्रीकण्ठ हे शंभो गडुव्रणं कण्ठे यस्य स कण्ठेगडुगण्डमालामहारोगान्वितस्तथारुणं शिरस्यस्य सोरुःशिराश्च । उपलक्षणत्वादन्यैरपि रोगैर्युक्तश्च सन्ना? रोगपीडितो नरो यस्त्वां नौति स्तौति स क्षणादगडुकण्ठोशिरस्यरुरपि । अपिः समुच्चये । उपलक्षणत्वादन्यरोगविमुक्तश्च भवति ॥
कण्ठेगदुः गडकण्ठः । शिरस्यरुः अाशिराः । अत्र "गड्वादिभ्यः" [१५६] इति सप्तम्यन्तं वा प्राग्निपतेत् ॥
-
१ सी पता.
१ ए बी सी डी ऊद्धीकृ. २सी चवः । प्र. ३ डी ४ए सी डी नानम् । प्र. ५ सी कन्ते य. ६ वी शिरोः । म
मो वि.