________________
[है० ३.१.१५०.] पञ्चमः सर्गः ।
४३३ सुखयातान्यतीन्यातमुखान्विप्रांश्च भूपतिः ।
दुःखहीनो हीनदुःखान्यथावत्संस्थया व्यधात् ॥ १३१॥ १३१. भूपतिर्मूलराजो हीनमपगतं दुःखं यस्मात्स तथा सन्संस्थया व्यवस्थया व्यधात् । कांस्कानित्याह । यातं प्राप्तं सुखं दैत्यवधोत्थं शर्म यैस्तान्सुखयातान्यतींस्तथा यातसुखान्विप्रांश्चोभयानपि यातसुखत्वेन हीनदुःखान् । कथं व्यधात् । यथावद्यः प्रकारो यौँ यथास्यास्ति "तदस्य” [७.२.१.] इत्यादिना मतुः। यद्वा यथेयेतस्याहं "तस्याहे" [७.१.५१] इत्यादिना वत् । क्रियाविशेषणं यथाविधीत्यर्थः ।।
गवाश्वेन । उष्ट्रखरेण । इत्यत्र "गवाश्वादिः" [१४४] इति द्वन्द्व एकार्थः ॥
दधिपयसोः । मधुसर्पिपोः । अन "न दधि" [३४५] इत्यादिना न द्वन्द्वै. कत्वम् ॥
पद्भिर्गामहिपैः । इत्यत्र "संख्याने" [१६] इति न द्वन्द्वैकत्वम् ॥ उपदशम् नागाश्वम् । उपदशैः नागाश्वैः । अत्र "वान्तिके" [१४७] इति वा द्वन्द्वैकत्वम् ॥ ___ भासनदशान् । इत्यत्र "प्रथमोकं प्राक्" [१४८] इति प्रथमान्तेन यबि. दिष्टं तत्पूर्व निपतति ॥
राजदन्तः । लिप्तवासित । इत्यत्र "राजदन्तादिषु" [१४९] इत्यप्राप्तपूर्वनिपातं प्राग्निपंतति ॥
विशेषण । उष्णगुश्रीः ॥ सर्वादि । सर्वसारेण ॥ संख्या । पदुन्नतः । इत्यत्र "विशेषण" [१५०] इत्यादिना विशेषणादेः पूर्वनिपातः ॥ शदस्य स्पर्धे पर१एडीनो दीन'.
-
-
-
-
१वी "स्तान्य. २ ए सी डी नभिया. ३ डी थायः ४ सी डी पास्या. ५ सीस्वम् । उप. ६डी पति।. ७ ए सी डी 'गुश्रीस'. ८सी म्दस्स.