________________
४२८ 'व्याश्रयमहाकाव्ये
[मूलराजः] तूं पुंलिङ्गावपि स्व इति पयुदासाश्रयणेत्रापि स्यात् ॥ अध्वर्युग्रहणं किम् । .इपुवज्रयोः । अध्वर्यवो यजुर्वेदविदस्तेपां वेदोप्यध्वर्युम्तन्न विहिताः ऋतवोश्वमे. धादयोध्वर्युक्रनवः । इपुवनौ तु सामवेदविहिताविति ॥
युत्संहिताया विस्तारात्पदकक्रमकं नु तौ ।
स्तुतौ देवासुरैः सर्पनकुलं नु विरोधतः ॥ १२० ।। १२०. तौ देवासुरैः स्तुतौ देवैर्मूलराज: प्रशंसितोसुरैस्तु लक्ष इत्यर्थः । किंभूतौ सन्तौ । विरोधतो वैराद्धेतो: सर्पनकुलं नु सर्पनकुलतुल्यावत एव युद्रणं सैव स्वर्गफलत्वात्संहिता वैदिको ग्रन्थस्तत्या विस्ताराद्विस्तारणाद्धेतोः पर्दैकक्रमकं नु पदानन्तरं क्रमस्य पाठात्पदक्रमौ निकटपाठी पाठविशेषावधीयाते “पदक्रम' [६.२.१२६] इत्यादिनाके पदकश्च क्रमकश्च तदिव । यथा पदाध्यायकक्रमाध्यायको यथोक्तेन संहितास्थपदक्रमपठनेन संहिताया विस्तारकावेवं युधो विस्तारका. वित्यर्थः ॥ पदकक्रमकम् । इत्यत्र "निकटपाठस्य" [१४०] इति द्वन्द्व एकार्थः ॥ सर्पनकुलम् । इत्यत्र “नित्यवैरस्य" [१४१] इति द्वन्द्व एकार्थः ॥
तौ गूर्जरत्राकच्छस्य द्वारकाकुण्डिनस्य नु ।
नाथौ शरोमिमालाभिर्गङ्गाशोणं प्रचक्रतुः ॥ १२१ ॥ १२१. तौ मूलराजलक्षौ गूर्जरत्राकच्छस्य गूर्जरत्राकच्छदेशयो
१ ए वी सी डी "तु पुलिङ्गा'. २ सी थेवा य. ३ ए सी ध्वयस्त. ४ ए सी युक्रवत'. ५ वी . सुरव० ६ ए सी डी 'कुल'. ७ ए सी °क. ८ ए सी डी उत्पाद. ९ ए सी शपव. ० ए सी घीयते. डी धीयते. ११ वी 'क्रमध्या. १२ सी तास्थाप°