________________
[है. ३.१.११२.] पञ्चमः सर्गः ।
गदामतल्लिका सोथ दैत्यतल्लजकोमुचत् ।
भ्रष्टाश्वगर्भिणीगर्भ गर्जन गूर्जरभूपतौ ॥ ९२ ॥ ९२. अथ स दैत्यतल्लजको दानवश्रेष्ठो प्राहारिर्गदामतल्लिका श्रेष्ठं गदाख्यमायुधभेदं गूर्जरभूपतांवमुचदक्षिपत् । कीडक्सन् । अश्वाश्च ता गर्भिण्यश्चाश्वगर्भिण्यो भ्रष्टा: साध्वसातिरेकादधःपतिता अश्वगर्भिणीनां गर्भा यत्र तद्यथा स्यादेवं गर्जन्महासिंहनादं मुञ्चन् । खमावान्मतल्लिकादयः प्रशंसायां रूढा आविष्टलिङ्गाश्च ।।
इभ्यपोटा । इभ्ययुवति । गजस्तोकैः । हयकतिपयैः । गोगृष्टि । गोधेनु । गोवंशाः । गोवेहत् । गोबष्कयिणी । भौत्सप्रवक्तृवत् । कठश्रोत्रिय । कालापाध्यायक । कठधूर्तः । गदामतल्लिकाम् । दैत्यतछजकः । इत्यत्र "पोटायुवति" [१११] इत्यादिना कर्मधारयः॥ अश्वगर्भिणी । इत्यत्र "चतुप्पाद्गर्भिण्या" [१२] इति कर्मधारयः ॥
शिरस्काधुवखलतिर्बुद्धेर्युवजरनथ । स्मितायुवपलितस्तां शक्क्या चिच्छेद राजिभूः ।। ९३॥ ९३. अथ राजिभूर्मूलराजस्तां गदां शक्क्यास्त्रभेदेन चिच्छेद । कीहक्सन् । शिरस्काच्छिरखाणाधुवखलतिस्तरुणः सन्खल्वाटस्तथा बुद्धेर्युवजरंस्तरुणः सन्वृद्धस्तथा मिताद्दाक्षेपोत्यहासाधुवपलितस्तरुणः सन्सितकचः ॥
१ सी स्काधव. २ डी तिर्युद्धे युव'. ३ डी जिसूः.
१ ए सी रिगदा. २ ए सी ताचद डी तावुद. ३ ए सी अभ्य'. ४५ सी डी वशा । गो'. ५ ए सी यकः । क. ६ बी तुष्फाद. ७ डी जिसूर्मू. ८ ए सी स्तरणः. ९ डी थायुव. १० ए सी बुदेई. ११ ए सीरुण म.