________________
फक
॥शा
RECEDEKEE गुरु बर्याणां जनकविजयपूज्यानां
9 स्तुतिः ॐ सम्यक् श्रुताब्धितरणीनिभवाग्विधान, * चारित्रपालनविधौ सततावधानम् ।
श्रद्धा-धृति-स्मृतिगुणाश्रयणैः प्रधानं, भवत्या स्तुवे गुरुवरं जनकाभिधानम्
यजन्मभूर्मनफराभिधसन्निवेशः ।। # श्री कच्छवागडधरासुकृतप्रवेशः ।
श्री कर्मसिंह कुलदीपमनूनमानं, भक्त्या० ॥२॥ माता च यस्य यमुना यमुनानदीव, श्यामा न नैव सजडा जनकस्य पुत्री। श्रीशङ्करं च यमसूत सुपुण्यवन्तं, भक्त्या० ॥३॥ जातश्च शून्य-मुनि-तत्त्व-शशाङ्क वर्षे, यस्याभिधा कृतवती मुरजीति माता। लोकैस्तु 'मोहन' इति प्रविकीर्त्यमानं, भक्त्या० ॥४॥ लब्ध्वापि जन्म जनकोजगति स्वपुण्यैः, पित्रोमनोरथसमं ववृधे स चालः । प्राग्जन्मसाधितकलाः सकलाः श्रयन्तम् , भक्त्या० ॥५॥