________________
है. ३.१.९.] पचमः सर्गः ।
३७५ वल्गन्कोप्यतिरोभूयाङ्गं तिरस्कृत्य वर्मणा ।
चर्मणांसं तिरःकृत्वा मध्येकृत्येभमप्यहन् ॥ २२ ॥ २२. कोपि दैत्यभटो वलान्नृत्यन्सन्निभमपि । आस्तां पत्त्यश्वादि। महावलं गजमप्यहन् । किं कृत्वा । अतिरोभूयाभयेनानिलीय रणागणे प्रकटीभूयेत्यर्थः । तथा वर्मणाझं तिरस्कृत्याच्छाद्य तथांसं स्कन्धं चर्मणा स्फरकेण तिरःकृत्वापिधाय तथा मध्येकृत्य चिन्तयित्वार्थात्प्रहारप्रस्तावम् ।।
मध्ये कृत्वा नृपास्तर्जन्पदेकृत्यापरो हयम् । पदे कृत्वा निवचनेकृत्य वाचाजयत्परान् ॥ २३ ॥ २३. अपरोन्यदैत्यभटो नृपान्मध्ये कृत्वान्तर्भाव्य नृपैः सहेत्यर्थः । पराब् शत्रुभटांस्तर्जनिभर्सयन्सन वाचैव न तु प्रहारेणाजयत् । किं कृत्वा । हयमश्वं पदेकृत्याहो अश्वरत्नमित्यादिकेस्त्याद्यन्तके पदे कृत्वा लाधित्वेत्यर्थः । ततः पदे कृत्वा पादयोः कृत्वा युद्धार्थ चालयित्वेत्यर्थः । ततः परान्वाचा साक्षेपगिरा निवर्चनेकृत्य संक्षोभोत्पादनेन निर्वचनान्कृत्वा ॥
कश्चिन्निवचने कृत्वेशाज्ञां मनसिकृत्य च। यशो मनसि कृत्वोरसिकृत्य जयमुत्थितः ॥ २४ ॥ २४. कश्चिदैत्यो रणायोत्थितः कि कृत्वा । निवचने कृत्वा मौनं कृत्वा । ईशाज्ञां युद्धविधिविषयं स्वाम्यादेशं मनसिकृत्य च चिचे धृत्वा
१ सी शाज्ञाम.
१ ए सी डी त्यश्व्यादि. २ बी सी भूय म'. ३ सी प्रहा. ४ बी रोन्यो दै. ५ एसी पदेः . ६सी 'चक्र. ७सी क्षोभ्योस्पा.