________________
३३७
या
है• २.४.३६.] चतुर्थः सर्गः। सहकेशाः सर्वतोप्यकेशा अपशोफा विकफा मयाः सुवेगाः। आरुरुहुर्विद्यमानकेशास्तोयदृतिकोडाः स्त्रियो भटानाम् ॥ ५७ ॥
५७. विद्यमानकेशाः खियो रणे भटानां जलपानाय तोयहविर्जलभृतखल्लः क्रोडेके यासां तास्तथा सत्यो मयाः सण्डीवेंसरीर्वारुण्हुः । कीदृशीः । सर्वतः सहकेशा अलूनवालास्तथा सर्वतोकेशा अपि लूनकेशाश्च । तथापशोफा विगतश्वयथूस्तथा विकफा विगतश्लेष्मकाः । एतेन नीरोगतोक्तिः । अत एव सुवेगाः ॥ दीर्घमुखायां गजाः पदव्यां छायार्ध्वमुखीमधोमुखां वा। स्वामप्यसहिष्णवो वृता दृश्वविकेश्यापठ्यक्षकेशया च ॥५८॥
५८. दीर्घ मुखं प्रारम्भो यस्यां तस्यां पदव्यां बहुगम्यत्वात्प्रलम्बे मार्ग इत्यर्थः । गजा दृक्षु नेत्रेष्वावृता आच्छादिताः । कया। पट्या वस्त्रेणापट्या वा जवन्या । कीदृश्या । अवेर्मेषस्य केशा यस्यां तयोर्णामय्येत्यर्थः । यद्वा । अविगतकेशया सकेशयेत्यर्थः । तथा ऋक्षाणां भालूकानां केशा यस्यां तया च अक्षवालनिर्मितया च । यतः स्वामपि च्छायां प्रतिबिम्बमसहिष्णवो मदान्धत्वात्प्रतिद्विपोयमित्याशङ्कयाक्षमणशीलाः । कीदृशीम् । ऊर्ध्वमुखी नद्यादिजल ऊर्ध्ववक्रामधोमुखां वा आतपे चाधोवकां वा ॥ __ अथैवं प्रस्थितस्य पाहारेः पराजयसूचकान्यरिष्टानि वृत्तद्वादशकेनाह॥ नाभिमुखास्तुङ्गनासिका कानासिक्यो लम्बोष्ठ्य उन्नतोष्ठाः । लम्बोदर्यः कृशोदराः काजङ्घाः पृथुजेन्योन्वयुः पिशाच्यः॥५९॥
५९. स्पष्टम् । किं तु । नाभिरिव मुखं यासां ता नाभिमुखा अति१ ए बी सी डी मूर्दमु. २ ए बी सी जदोन्व'. १ ए सी हः । कोडे'. २ ए सी ते नी . ३ ए सी नेत्र्येष्वा. ४ थी गां महू. ५ ए बी सी डी ऊर्द्धमु. ६ ए वी सी डी ऊर्दव. ७ सी पे बाधो.