________________
[है. २.३.८७.] चतुर्थः सर्गः । ये णिगि भावेनटि नमा बहुव्रीहिः । लोकमध्ये प्रकाश्यमेतत्कारकनिरहेणावर्धनीयं चेत्यर्थः । कुकर्मायत्तोयं तदनेन सह का मे मैत्रीत्यर्थः ।। अमुना परिवेपनेन भन्नः परिपावनपरिभापनः प्रभासः । दुष्पख्याणभकामनेनान्तर्हननत्वं सुप्रगम्यमानः ॥ ३० ॥
३०. परिपावन: पापमलापनेतृत्वात्पावित्र्यहेतुर्यः परिभापनो ल. इम्यादिसंपादनेन शोभापादनहेतुः स प्रभासस्तीर्थममुना पाहारिणा भग्नः । यतोन्तर्हननत्वमन्तहन्यतेस्मिन्नित्यन्तहननो देशो यत्र मध्यभागे लोको हन्यते तद्भावं मध्यभागे लोकघातमित्यर्थः । सुप्रगम्यमान: प्राप्यमाणः। कोशेन सता | दुष्प्रल्याणे दुष्टल्यातौ प्रकामनमभिलाषो यस्य तेनात एव परिवेप्यते जगद्येन तेने परिवेपनेन प्रच्छन्नधाटीप्रदानादिनाखिललोककम्पकेन । मध्येलोकं नता प्रभासदेशोमुनोपद्रुतोतोमुना सहाले मैश्येत्यर्थः॥ अन्तरयनता जहाँ सुराष्ट्रा येनान्तरयणवारिणा जनानाम् । सोन्तर्हणनात्कयं छुपेक्ष्यः सर्पिष्पानप्रावनद्धपिण्डः ॥ ३१ ॥
३१. जनानामन्तरयणं मध्ये गमनं प्रच्छन्नघाटीप्रदानादिना वारयतीत्येवंशीलो यस्तेनान्तरयणवारिणा सता येन कृत्वा सुराष्ट्रादेशोन्तरयनतामन्तमध्ये सुस्थत्वेनाय्यते गम्यते यस्यां सान्तरयनी तद्भावं जही तत्याज । येन कृत्वा दुर्गमाभूदित्यर्थः । स पाहारिः सर्पिष्पा. नेन प्रावनद्धं पीनं पिण्डमङ्गं यस्य सोतिवलिष्ठ इत्यर्थः । हि स्फुटमन्वईणनात्सुराष्ट्रामध्ये वधात्सकाशात्कथमुपेक्ष्यो मोच्यः सुराष्ट्रामध्ये वध्य एवेत्यर्थः ॥ १वी डावम'. २ डीन x. ३ ए सी मैत्रेत्य'. ४ ए सी डी यनवा. ५वी ये स्वस्थ. ६ एसी स्यां सारतय.
-
-