________________
३०६
ब्याश्रयमहाकाव्य
[मूलराजः]
तदेवं मैत्रीगर्भेषु बहुप्वप्यागमकारणेपूक्तेष्वमन्यमान इव राशि किंचिदप्रतिवदत्यन्यकारणाभावान्निरर्थकं बलभ्रमणं न युक्तमिति वदति । प्रहयानि वलान्यदुर्नयस्त्वं न मुधैव भ्रमयेः प्रनायकानि । परिणश्यति जीवितेपि मैत्री नान्तर्णश्यति नोप्रनष्टपूर्वा ॥ १४ ॥
१४. हे राजन् प्रहयानि प्रकृष्टाश्वानि प्रनायकानि प्रकृष्टस्वामिकानि च बलानि मुधैव पूर्वोक्तनीत्या कारणाभावेन निरर्थक न भ्रमयः । नो मार्थे । नाचीचलः । यतस्त्वमदुर्नयो न्यायीत्यर्थः । न चास्माशत्रुतयांशङ्कथेवं सैन्यसंरम्भेणागमनं सार्थकं यतोप्रनष्टपूर्वा पूर्वमनपगता नो युष्माकमस्माकं च । “त्यदादिः" [३. १. १२० ] हत्यसच्छेपः । मैत्री जीवित परिणश्यत्यपि नान्तर्मध्ये हृदये नश्यति । येयन्ति दिनानि न गता साद्यापि मैत्री कथंचन नापयातीत्यर्थः ।।
कवर्ग । वृषगामिणम् । गुरुकामाणि । नृमुखेण ॥ एकस्वर । वृत्रहणम् । सम्रपाणि । सुराष्ट्रपाणाम् । इत्यत्र “कवर्ग" [.६] इत्यादिना नित्यं णः ॥ अपकस्येत्येव । वरपकेन ॥
ण । प्रणमामि ॥ अन्तर् । अन्तर्णिनीपुः ॥ हिनु । प्रहिणोमि ॥ मीना । भा प्रमीणा. ॥ भानि । प्रयाणि । इत्यत्र "अदुरुपसर्ग" [५] इत्यादिना णः ॥ आनीत्यर्थवत एव प्रहणादनर्थकस्य न भवति । प्रहयानि । अदुरिति किम् । भदुर्नयः ॥ येन धातुना युक्तो. प्रादयस्तमेव प्रत्युपसर्गसज्ञा भवन्तीतीह न भवति । प्रनायकानि ॥
परिणश्यति । अन्तर्णश्यति । अत्र "नशः श." [७८] इति यः ॥ म इति किम् । अमनटे॥
५.
१बी । माची . २ सी 'शव ३ बी ५: । मेत्री. ४ बी ५ वी "का. प्रदाय. ६ ए सी टी तिनं. ७ वी नरः ॥