________________
[है०२.३.७५.] चतुर्थ. सर्गः।
उसरपदान्त । सागरवाहिणम् गर्ववाहिनम् ॥ नागम । परीण्वन् परीन्वत ॥ स्यादि । रिपुवापेण शरवापेन । इत्यत्र “वोत्तर" [५] इत्यादिना वा णः ॥ अयुवपकाइ इति किम् । क्षत्रिययूनः । परिपक्कानि । परिपक्केन । दीर्घाह्वयाम् ॥ द्रष्टा वृषगामिणं नु विभ्रगुरुकामाणि बलानि सन्नृपाणि । तं वृत्रहणं सुराष्ट्रपाणां सन्नमुखेण न हि व्यबोधयः किम् ॥१२॥
१२. वृषगामिणं वृषभवाहनं सोमनाथं सन्नृपाणि विद्यमानराजकानि बलानि सैन्यानि विभ्रद्धारयन्सन्नु किं द्रष्टा आगा: । नन्वहं चेत्सोमनाथदर्शनायागां तत्किमिति सन्नृपाणि बलान्यबिभरमित्याशक्याह । यतो गुरुमहान्कामो वृषगामिदर्शनाभिलाषो येषां तानि । सुराष्ट्रदेशे हि सोमनाथोस्ति । यद्येव तर्हि सुराष्ट्रपाणां सुराष्ट्रदेशरक्षिणा नृपाणां वृत्रणमिन्द्रं तं प्राहार सन्नमुखेण प्रधानपुरुषमुखेन हि स्फुटं किं न व्यबोधयः किमिति नाज्ञापयः । येनायं सौहार्दाविशयाचवाभिगमनादिप्रतिपत्रिं कुर्यादित्यर्थः ॥ वरपकेनेक्षुणा समं किं शोद्धारान्तर्णिनीपुरम्भः । प्रणमामि तव प्रयाणि तत्कि पहिणोमि स्म वनानि मा प्रमीणाः १३ ___ १३. वरपकेन वरेण सुस्वादुना पक्केन परिपूर्ण निष्पन्नेनेक्षुणेक्षुरसेन समं माधुर्यादिभिस्तुल्यं किं शङ्खोद्धारान्तः शङ्खोद्धाराख्यतीर्थमध्यादम्भो जलं निनीपुर्नेतुमिच्छुस्त्वमागाः । सुराष्ट्रेषु हि शङ्खोद्धाराख्यं तीर्थमस्ति । प्रश्नयनेवोत्तरमाह । किं तव प्रणमामि तथा कि प्रयाणि शङ्खोद्धारजलानयनार्थ गच्छामि । तथा तदम्भः किं प्रहिणोमि प्रेषयामि । वनानि काननानि मा स्म प्रमीणा मा विनाशय ।। १ ए सी दृष्टा डी दृष्ट्वा वृ. १ बी पवा'. २ ए सी डी कि दृष्टा. ३ ए सी डी गा. । अन्व ४ ए सी डी न्यवितर'.