________________
[है० २.२.७.]
द्वितीयः सर्गः ।
१९१
तिबोध" [५] इत्यादिनाणिकर्ता णो कर्म ॥ गत्यर्थादीनामिति किम् । तेजोभिः के नापीपचत् ॥ नयत्यादिवर्जनं किम् ॥ श्ववृन्दैश्चमरीरानायर्यन् । चित्रकायरेणी: खादयति । श्ववृन्दैवमरीरादयते । दूतस्तं मा दायर्य । दूतैस्तं मा शब्दायय । चित्रकायैरेणीराक्रन्दयन् ॥
"भक्षेहिसायाम्" [६] इत्यत्र हिंसायामेवेति नियमोहिंसायामणिकर्तुः कर्मसंज्ञाप्रतिषेधफल एवेत्यस्य॑ सूत्रस्य जगताप्यभक्ष्यं भक्षयन्तमिति कर्मव्यावृत्युदाहरणमेव दर्शितम् ॥
शारीढिपान्वाहय । इत्यत्र "वहेः प्रवेय" [७] इत्यणिकर्ता प्रवेयो णौ कर्म ॥ प्रवेय इति किम् । दण्डनेत्राज्ञां वाहय ॥
ननु यदि ग्राहारिमहापन्याय्यभक्ष्यभक्षणाद्यन्याये जनमपि प्रवर्तयति तदा तस्यैव दोपो नास्माकमिति राजा मा वोचदित्याह ।। विहारयेद्यो जनतां कुवर्त्म विहारयेन्मृत्युपथं हि तेन । अहारयस्तं किल दण्डमीशः खं हारयेद्धर्ममधेन तस्य ॥ ८८॥
८८. यः कोपि जनतां जनौघं कुवान्यायमार्ग विहारयेद्गमयेतेन की हि स्फुटमीश: समर्थो मृत्युपथं मरणं विहारयेन्मृत्युपथं विहरन्तं तं प्रयुजीत गमयितुमर्हतीत्यर्थः । एतदेव व्यतिरेकेण द्रढयति। किलेल्याप्तवादे । आप्ता एवं वदन्ति । यो जनतां कुवम विहारयेत्तं नरं दण्डं निग्रहमहारयन्नप्रापयन्नीशः समर्थस्तस्य जनतां कुवर्त्म विहारयितुरघेन पापेन का स्वमात्मीयं धर्म हारयेच्चोरयेत् । एतेन यदि त्व
१ एफ बोधाहारार्थेत्या. २ सी डीम् । चम'. ३ एफ यत् । चि. ४ ए य । चि. ५ एफणीरक्र. ६ सी डी "स्य ज. ७ वी वाहेत्य'. ८ एफ म् । ने. ९ एफ हान्या'. १० एफ रयन्म'. ११ सी डी एफ णदृढ'. १२ सी डी आप्त एव वदति. १३ एफ येद्गमयन्तं. १४ सी डी येत् वार'. एफ 'येत् ए.