________________
-
हिं० २.२.१.] द्वितीयः सर्गः।
१८७ सस्य पितोग्रसेनो देवकीपिता देवकश्व भ्रातराविति कंसभगिनीत्वं देवक्या: । एतान्दशास्यादीननीतीरन्यदारापहारादिकानन्यायानसको ग्राहारिः किमग्रहीत् । एषां पार्थादेता अनीती: किमसौ जग्राहेत्यर्थः । एतासां सर्वासामप्यनीतीनामत्र दर्शनादेवमाशङ्का ।। गजाश्वगाः सिन्धुपति ममन्थ महीभृतो भेदमुवाह चेत्थम् । इन्द्रं गुणान्दण्डितवान्नु कालं स बातयामास न तेन कालः ॥८॥
८३. स ग्राहारिः सिन्धुपति सिन्धुदेशाधिपं गजाश्वगा हस्तितुरङ्गवृषभान्ममन्थे मथित्वाग्रहीद्दण्डितवानित्यर्थः । तथा महीभृतो नृपान्भेदं संहत्यभावमुवाह च प्रापितवानन्यानृपान्कूटप्रयोगेण भेदितवानित्यर्थः । इत्थमनेन प्रकारेणेन्द्रं शक्रं गुणान् सिन्धुपतिमन्थनादीन् धर्मान् दण्डितवान्नु किं हठाजग्राह । इन्द्रो हि सिन्धुपतिमब्धिमैरावणं गजमुच्चैःश्रवसमश्वं कामधेनुं गां च ममन्थ । तथा महीभृतोद्रीन्भेदं पक्षच्छेदमुवाह । एते चेन्द्रगुणा अत्रापील्यन्त इत्येवमाशङ्का । तथा स कालं यमं घातयामास । कर्माविवक्षायां जघान कालः । तं जनिवांसं स प्रयुयुजे युद्धादिविधानेन स सर्व घातितवानित्यर्थः । न तु काल: कर्ता तेन ग्राहरिपुणा प्रयोज्यका घातयामास । हनने कालस्यापि स प्रयोक्ता न तु तस्य काल इत्यर्थः । इदमुकं स्याद्यत्रायं रुष्टस्तमसमयपि यमो हन्ति यत्र त्वयं प्रसन्नस्तं समयेपि यमो दूरान्नमस्करोति ॥
क्रियाणां हेतुः कारकवदित्यनेन "क्रिमाहेतुः कारकम्" [] इति सूत्र सू. चितम् ।
-
-
-
१सीडी क. २ सीडी न्धुदे'. ३ एफ गम'. ४ एफ 'न्य मम्. ५ बी मथना. ६ एफ 'तिमै'. ७ वी सर्व. ८ एफ त्र चाय.