________________
है.२.२.१.] द्वितीयः सर्गः।
१८५ महैनसां कारकवक्रियाणां हेतुः स्वतः स कुकर्म कर्ता । विश्वं ततापाट दिशो ललोब्धीनास दुर्गाणि भयं न लेभे ॥७९॥
७९. स ग्राहरिपुर्विश्वं ततापोटेजितवान् । कीहक्सन् । स्वतत्रः सर्वोत्कटत्वात्कस्याप्यनायत्तः । तथा कुकर्म द्रोहवञ्चनादिकां निन्यां कियां कर्ता स्वयं कुर्वन् । तथा कारकवत् । यथा कारकं कादि क्रियाणां धात्वर्थानां पाकादीनां हेतुस्तथा महेनसां महापापानां द्रोहवश्चनादीनां हेतुः । अन्यैरपि महापापानि कारयश्चेत्यर्थः । विश्वतापप्रकारानेवाह । आट दिश.। लोकलुण्टनाद्यर्थ सर्वाशा भ्रान्तवान् । तथा ललखेव्धीन् । तथास दुर्गाणि । अद्रिकोट्टादिदुर्गस्थानानि वभन । दिक्षु पलायितोप्यब्धौ दुर्गे वा प्रविष्टोपि न कोप्यस्माईत्याच्छुटित इत्यर्थः । तथा भयं न लेभे । एवं विश्वं सन्तापयन् स्वतन्त्रत्वात्कस्मादपि न भीत इत्यर्थः । योपि कुकर्मरूप: कर्ता विधाता कुदैवं स्यात्सोपि स्वतत्रो महेनसां क्रियाणां हेतुः सन्दुर्भिक्षडमरायुत्पादनेन विश्वं लोकं तपति । दिगब्धिदुर्गाण्याश्रयन्नपि तस्मान्न छुटतीत्युक्तिः ॥ केल्याप्यटन् भापयते स भूपान्वमूनि गां दोग्ध्यनुशास्त्यधर्मम् । मुनीन सामाह रुणद्धि वृत्तिं न सत्पथं पृच्छति य
८०. केल्यापि राजपाट्याप्यटन् गच्छन् सन् स प्राहरिपुर्भूपान् भापयते । राजपाट्यामप्येतावता वलेन याति यावताश्वखुरोत्खातधूलीधूसरिताम्वरोसौ नूनमस्मानास्कन्तुमेतीत्याशीतकाकुलान्करोतीत्यर्थः । एतेन च्छद्मपरत्वं वलसंपदतिशयश्वोक्ते । तथा गां पृथ्वी वसूनि द्र. व्याणि दोग्धि क्षारयति । एतेनामुनोर्वी करपीडिता कृत्युक्तम् ।
१ ए सी एफ स्तथैन. २ एफ लायमानोप्य'. ३ सी डी श्वं ताप'. ४ थी "त्पानने. ५ एफ के तापयति. ६ सीडी न छु. ७ एफ स प्रा. ८डी या ९ एफ वखरो'. १० एफ स्कन्दयितुमे . ११ एफ काकु.
२४