________________
[है० २.१.९९.]
द्वितीयः सर्गः ।
१७५
मान् मारुतिस्तयोस्तुल्या "न नृ[७.१.१०८] इत्यादिना कनिषेधे गरुत्म
नुमन्तो गरुडहनुमदादिरूपकालंकृता इत्यर्थः । ये ध्वजास्तेषामहें योग्येनेककोटीप्रभुमहेभ्याधिष्ठितहर्म्यरम्यत्वात् । यद्वा । गरुत्मद्धनुमन्तौ ध्वजौ चिह्ने ययोस्तौ गरुत्मद्धनुमद्धजौ वासुदेवार्जुनौ तयोरहे वासयोग्ये । वामनस्थल्यां हि वासुदेवार्जुनावुपितावभूताम् । चौराहि दुर्गपल्यादिस्थान एव वसन्त्ययं तु तथाभूतोपि बलिष्ठत्वेन सर्वथाकुतोभयत्वान्महद्धिके पुर एव स्वेच्छया वसतीत्यर्थः । अतश्च महापत्यायित्वाद्भानुमतीशकल्पो भानुमत्या ईशो भर्ता दुर्योधनस्तत्तुल्यः । सोपि यवमत्कराणां महापुरुपत्वाद्यवाकारसुप्रशस्तलक्षणान्वितहस्तानां मुनीनामुपशमेन मुनितुल्यानां पाण्डवानां गोहृद् द्यूतच्छलेन भूमेरपहर्ता सन् गरुत्मद्धनुमद्धृजार्हे पुरे गजपुर उवास ॥
राजन्वती । इति "राजन्वान्सुराज्ञि" [९८] इति निपात्यम् ॥ सुराज्ञीति किम् । राजवतीम् ॥
ऊर्मिमत् । दल्मिमान् । भूमिमान् । कृमिमान् । यवमत् । गरुत्मत् । ककुअत् । माहिष्मती । हनुमत् । भानुमती । इत्यत्र वस्य "नोादिभ्यः" [९९] इति निषेधः ॥ निशाखवस्कन्दिनि निश्यशायिन्यासन्यनासीन इहोग्रदोषि । मासार्धमासेन स आसनाय मन्येनुजो विंशतिदोष्ण इच्छेत् ॥६६॥
६६. इह ग्राहरिपो सति मन्ये स शौर्यादिगुणैः प्रसिद्धो विशति' दोष्णो रावणस्यानुजो विभीषणोर्धमासेन मासा मासेन वासनायोपवे. . शनायेच्छेत् । यतः कीदृशीह । निशाखवस्कन्दिनि घाटीपदे छलपर । इत्यर्थः । तथा निश्यपि । अपियः । अशायिनि सदोद्यत इत्यर्थः ।
१ एफ त एव म. २ डी एफ हान्या'. ३ एफू नस्तेन तुल्य.. ४ एफ ती रा. ५ ए त् । मा. ६ ए सीडी मासे'. ७ ए सी सीनाये.
।