________________
[है० २.१.९६.] द्वितीयः सर्गः।
१५३ स्सास्ति चक्रीवान् गर्दम आभीर एवान्यायित्वेन निन्द्यत्वाचक्रीवांस्तस्मिन्विषये शंभुर्यदनुशासनं न्यदिक्षत्तयुक्तम् । धार्मिकस्य सैन्यादिसर्वशक्तियुक्तस्य तवान्यायिनि ग्राहरिपौ विषये य: शांभवोनुशासनादेशः स कर्तव्यो मे प्रतिभातीत्यर्थः ।।। ___ अय राझो मन्यूद्दीपनाय जगत्रयसंतापकानि ग्राहरिपोरनेकान्यन्यायपदानि बलानि च वृत्तचतुर्विशत्या वदन्नीशादेशस्यैव युक्तता द्रढयति ।
औदन्वतद्रोहकरेण चर्मवत्यस्थिमत्यर्दिततीर्यपान्यैः । कक्ष्यावतामप्यगमाभ्युदन्वत्प्रभासभूश्वकवतामुनाभूत् ॥ ६३॥
६३. उदन्वन्तं समुद्रमभि "लक्षणेनाभि " [३.१.३३] इत्यादिनाम्ययीभावे अभ्युदन्वदुदन्वन्तं लक्ष्यीकृत्याभिमुखा प्रभासभूः प्रभासतीर्थभूमिः । प्रभासतीर्थ हि समुद्रसमीपेस्ति । यद्वाभ्यभित उदन्वती समुद्रोदकं विभ्राणा या प्रभासभूः सा कक्ष्यावतामपि । कर्तरि पष्ठी । उद्यमवद्भिरप्यगमागम्याभूत् । केन हेतुना । अजुना पाहारिणा । कीदशेन । उदकमस्यास्त्युदन्वानृषिस्तस्यापत्यमौदन्वत ऋषिस्तस्य । यद्बोदन्वान्नामाश्रमस्तत्र भवा ऋषयस्तेषाम् । द्रोहकरेण जिघांसुना । तथा चक्रवता सुराष्ट्रादेशस्वामिना । कीहक्सती भूः । अर्दितामुनैव विनाशिता ये तीर्थपान्था यात्रिकास्तैः कृत्वा चर्मवती चर्मान्विता । तथास्थिमती कीकसान्विता च । अनेनानेकान् यात्रिकान् हतान् दृष्ट्रा यात्राश्रद्धालवोषि भयेन प्रभासे न गच्छन्तीत्यर्थः ।।
धर्मण्वती । महीवत् । चक्रीवति । कक्षीवत्। रुमण्वत्। इत्येते "चर्मण्वती" [९६] इत्यादिना निपात्याः । नानीत्येवं । धर्मवती । अस्विमती । पक्रवता। कक्ष्यावताम् ।
१ एफ आहीर. २ एफ पाहिरि'. ३ एकता दृढ'. ४ एफ कक्षाव. ५ वी रप्याग'. ६५वी राष्ट्रदे'. ७ एफ पाताः ।।.. ८ ए सी टी व म.