________________
[मूलराजः]
व्यायमहाकाव्ये
१४८
क्षया प्रजासृजा बहपस्तन्वस्त्यक्तास्तत्र देवान्सृष्टा या तनुस्त्यका साहः संपन्ना । पुनदैत्यान्सृष्ट्वा या तनुस्त्यक्ता सा रात्रिरूपाजायत । भूयो मान्निर्माय तनुरुत्सृष्टा या सा प्रातःसंध्या समपद्यतेति । तथासौ प्रत्यक्ष इनो रविरीशस्य शंभोरियमैशी तर्नुः । यदुक्तम् ।
क्षितिजलपवनहुताशनयजमानाकाशसोमसूर्याख्याः । ईशस्य मूर्तयोष्टौ चिरंतनैमुनिभिराख्याताः ॥ १॥ तथाBयो योरपि ब्रह्मेशतन्वोस्तृतीयासुकः प्रत्यक्षस्त्वं मौरजिती तनुवैष्णवी मूर्तिः । नृपो हि प्रजापालकत्वेन वैष्णवी मूर्तिरिति रूढिः । एवं चेयं प्रत्यक्षा त्रयी ब्रह्मशंभुविष्णुरूंपा साक्षात्प्रत्यक्षास्ति । ततस्तस्माद्धतोः कः पुमान्नादमुयड्ङमू त्रयीं नाचति । अधुना संध्यां सूर्य त्वां च त्रयीमूर्तित्वात्सर्वो लोकः पूजयतीत्यर्थः ।। संध्यां नृपा मुमुयङ् हरो यद्ब्रह्माप्यमुयङ् हरिरप्यदया । ये नामुनामी अपि यान्ति मुक्तेर्निया पथाद्यस्य लुवा च लोकाः
३३. हे नृप संध्यां प्रभातसंध्यामर्च । यद्यस्माद्धेतोहरोप्यमूं संध्यामञ्चत्यमुमुयड् । तथा ब्रह्माप्यमुद्यङ् । हरिरपि विष्णुरप्यदया । अय प्रत्यक्षेणाप्यस्या जगत्पूज्यतामाहुः । लुवा चति । चो भिन्नक्रमे। येन प हेतुनामुना पथा संध्या लक्षणेनामी लोका अप्यासतां तावदागमगम्या हरादयः प्रत्यक्षा ब्राह्मणादयो जना अपि यान्ति संध्याची कुर्वन्तीत्यर्थः। यत: किंभूतेन । अघस्य पापस्य लुवा छेदकेन । अत एव मुक्तमोक्षस
निया प्रापकेन ।।
१ डी सी एफ स्तन्व्यस्त्य'. २ वी पास्तनु. ३री त्रितवाजा. ४ एफ नः । तदु. ५ सी मुनयो'. ६ एफ नोपि लो'. ७सी री "माह।' ८ डी तेनाप्यप.