________________
१४० ब्याश्रयमहाकाव्ये
[मूलराजः] रिति मते स्व ममित्येव च भवतीति मन्यन्ते । ते हि प्रकृतिमात्रस्यादेशान् उजस्सीनाममादेश ङसस्त्वकारमिच्छन्ति । अन्न तु त्वमिति ममिति च स्वय ज्ञेयम् ॥
अतियूयम् । अतिवयम् । इत्यत्र "यूयं वय जसा" [१३] इति यूयवयमौ ॥ त्वां मां धिगावां च युवा तथास्मान्युष्मान्न यत्सत्तव सन्ममेशः। ईक्षेति वाचो नृषु तुभ्यमिष्टमह्यं हितेष्वाश्चधुनोल्लसन्ति ॥ २० ॥
२०. इष्टा वयं यस्य तस्माविष्टमा तुभ्यं हितेषु त्वय्यत्यन्तं भक्तेषु नृष्वाधारेष्वधुना प्रभात इत्येवंविधा वाच आशूल्लसन्ति । यथा हे मित्र सन प्रसादपात्रत्वेन प्रधानस्त्वं सन्तौ युवां सन्तो यूयं च यस्य तस्य सत्तव तथा मन्नहं सन्तावावां सन्तो वयं च यस्य तस्य सन्ममेशः स्वामिनो मूलराजस्य यद्यस्मान्नेक्षा दर्शनं नाभूत्तत्तस्मात्त्वां मां युवामावां युष्मानस्मांश्च धिर धिक्कारोस्त्विति । अतिभक्तत्वात्प्रातस्त्वदर्शनेत्युत्कण्ठिताः सेवका यावत् क्षणमात्रं त्वदर्शनं न भवति तावदकृतार्थ मन्यमानाः स्वं निन्दन्तीत्यर्थ. ॥
न
तुभ्यम् । इष्टमह्यम् । इन्यत्र "तुभ्यं मह्यं ड्या" [१४] इति तुभ्यंमामा ।
मत्तव । सन्मम । इत्यत्र "तव मम डसा" [१५] इति तवमौ ॥ त्वाम् । माम् । युवाम् । आवाम् । इत्यत्र "अमौ म.'' [१६] इति अम्-औ-स्थान म्॥
युष्मान् । अस्मान् । इत्यत्र "शसो न" [१७] इति शसोन् ।
१ ए ध्येति.
ए मममा २ बी एफ तु त्वामि . ३ एफ ति मामि. ४ एफ रय म. ५ ए सी 'स्य तन्म. ६ All Mss read धिक्कारो.