________________
है० १.४.५८. प्रथमः सर्गः।
१२१ सैन्ये । उपलक्षणत्वाद्रयपत्तिवले अपि । परिवारमात्रं परिच्छद एवास्तामभूतां स्ववलेनैवास्य जगच्छासितुं क्षमत्वात् ।।
यति अभवन् । तति न्यधुः । पट पञ्च हराः। पढष्ट त्रातुम् । इत्यत्र"इतिष्ण" [५४ ] इत्यादिना जस्-शसो क् ॥
स्थामानि । भुवनानि । इत्यत्र "नपुंसकस्य शि" [५५] इति जस्-शसोः शिः ॥ नपुंसकस्येति किम् । हराः । बले भास्ताम् । तूणे दधतः । इत्यत्र "ौरीः" [५६ ] इति-ईः ॥
परिवारमात्रम् । भृशं दधतः । इत्यत्र "अत स्यमोम्" [५७ ] इति स्यमोरम् ।। वसन्ततिलका छन्दः। सर्गान्ते छन्दोन्तरं क्रियत इति हि कविसमयः॥ अन्यदलं किल महोन्यतरद्रवीन्दोधैर्य च नेतरदतीतरमस्य सर्वम् । सैन्यं द्विषां कतमदेष न संजहार हष्टं जगत्कतरदेकतरं न चक्रे १९८
१९८. अस्य राज्ञो वलं पराक्रमोन्यदपूर्व लोकोत्तरमित्यर्थः । तथास्य महस्तेजो रवीन्द्वोः सूर्याचन्द्रमसोर्मध्येन्यतरदेकतरं द्विषां संतापकत्वाद्रवितेजो वा सज्जनानामावादकत्वादिन्दुतेजोवेत्यर्थः । तथास्य धैर्य चित्तावष्टम्भलक्षणो गुणो नेतरन्नान्यादृशमापद्यप्यविचलमित्यर्थः । किं बहुनास्य सर्वमौदार्यगाम्भीर्याद्यतीतरमितरानन्यानतिक्रान्तं सर्वोत्कृष्टमित्यर्थः । अतश्चैष राजा द्विषां सैन्यं कतमन्न मंजहार । तथा कतरदेकतरं जगद्धष्टं न चक्रे किं तु सर्वमपि ।
भन्यत् । मन्यतरत् । इतरत् । कतरत् । कतमत् । इत्यत्र "पत" [५८] इत्यादिना स्पमोर्दः ॥ भनेकतरस्येति किम् । एकतरम् ॥ अन्यादेरिति किम् । सर्वम् ॥ मम्मादिसंबन्धिनोः स्थमोर्ग्रहणादिह न स्यात् । भतीतरम् ॥
१ एफ ति क . २ बीदृशामा . ३ एफ चतोन्या.