________________
है० १.४.२७.] प्रथमः सर्गः।
पृथ्व्या वध्वाः करं गृहल्क्ष्म्यै वध्वाययं सुखः।
लुब्धोन्यकीर्तिवध्वां च परवध्वाः पराङपि ॥ १७६ ॥ १७६. सुगम: । नवरं यो वध्वन्तरस्य करं गृहात्युद्वाहं करोति स पूर्ववध्वा दुःखायैव स्यात् । योपि परवध्वाः पराङ्मुख: स्यात् सोन्यवधू नेछतीति विरोधः । तद्गस्त्वेवम् । पृथ्व्या वध्वाः करं राजग्राह्यं भागं गृहन्सन् लक्ष्म्यै वध्वं सुखः सुखकार्यभूत् । लक्ष्म्या वर्धकत्वान् । तथा परवध्वाः पराड् पराङ्मुखोन्यकीर्तिवध्वां शत्रुकीर्तिकान्तायां लुब्धश्चाभूत् । अपिहन्नित्यत्रापि योज्यः ।।
ग्रामण्येपि खलप्चे नु निस्पृहोसौ परस्त्रियै । मुलक्ष्म्यै च सुवध्यै च न स्म कस्मै चिदीर्ण्यति ॥१७७॥ १७७. असौ राजा शोभना अतुच्छत्वात्प्रधाना लक्ष्म्यो धनधान्यादिसंपदो यस्य तस्मै सुलक्ष्म्यै च तथा शोभना रूपलावण्याद्यन्विता वधूर्भार्या यस्य । केचित्तु नित्यदितां इयूडन्तानामेव कचमिच्छन्ति तन्मतेत्र कजभावः । तस्मै सुवध्वं च कस्मै चित्कस्मायप्येकस्मै नेय॑ति नासूयति । असहमानो रम्यतमामपि परस्य लक्ष्मी वधूं च न गृहातीत्यर्थः । यतो ग्रामं नयति प्रामणीमिपतिर्महर्द्धिक इत्यर्थः । तस्मै प्रामण्येपि खलं पुनाति यस्तस्मै खलप्वे नु दासायेवं दरिद्रायेवेत्यर्थः । अस्पृहयालुर्यथा धनेच्छया दरिद्रं न कोपीच्छति तथायमीश्वरमपीत्यर्थः । तथा परस्त्रियायन्यभार्यायै ग्रामण्येपि रूपलावण्यादिभिरुत्कृ. टायामपि खलप्वे नु कर्मकर्यायिवास्पृहयालुरनभिलाषुकः ।। बुयै शुचये । कील्ः मतेः । नृपपतीः महाबुद्धेः । जयाप्त्यां समितौ ।
१ सी वधूनेच्छ. डी वधूनेच्छ. २ एफ °च्छतिवि'. ३ फू कार्योभू. ४ ए एफ पि गृक. ५ एफ नातीति. ६ सी डी येवेत्य'. ७सी एफ . म. ८ सी डी एफ या म