________________
[हिं० १.४.२७.] प्रथमः सर्गः ।
कान्त्या सदृमिशः पत्युर्मधोः सख्युश्च रूपतः ।
शंभोः सख्युः श्रियः पत्युहीयते स्म न संपदा ॥ १७१ ॥ १७१. मधोः सख्युश्च कामस्य सदृक् राजा । शंभोः सख्युर्धनदात् । श्रियः पत्युर्नारायणात् । शिष्टं स्पष्टम् ॥
सख्या । पत्या । सख्ये । परये । सख्युः । पत्युः । सख्युः । पत्युः । इस्यत्र "न नासिदेत्" [२७] इति न नादेशैफारौ ॥
अस्योपायचतुःस्तन्यै बुद्ध्यै धेन्वै नु साधवे ।
शुचये कीर्तिदुग्धायै स्पृहयामास वासवः ॥ १७२ ॥ १७२. अस्य रामो बुद्ध्यै धेन्वै न्वर्थात्कामधेनव इव वासवः स्पृहयामास । कामधेनुग्वैितद्बुद्धिर्ममापि भूयादित्यैच्छदित्यर्थः । यतः साधवे मनोज्ञायै । कुतः साधुत्वमित्याह । यत उपायाः सामदानभेददण्डा एव चत्वार स्तना यस्यास्तस्यै । तथा कीर्तिरेव श्वेतत्वाप्यायकत्वादिना दुग्धं यस्यास्तस्यै । बुद्धया हि यथोचित्यं नियुज्यमाना उपायाः स्वफलसाधकत्वाद्यशोदुग्धं प्रभुवन्ति । तथा शुचये पवित्रायै ॥
तस्याः कीर्त्या मतेस्तस्या अस्मिन्विश्वोपरि स्थिते ।
सजिष्णोरपि दैत्याजिभीर्वा भीर्निर्ययौ दिवः ॥ १७३ ॥ १७३. तस्याः कीर्त्यास्तस्या मतेः। “गम्ययपः" [२ २.७५] इत्यादिनान पञ्चमी । तां शौर्यादिगुणोद्भवां कीर्ति ती पूर्ववर्णितां मति च प्राप्य विइवोपरि स्थिते विश्वत्रयोपरिवर्तिनि सर्वोत्तम इत्यर्थः । अस्मिन् रानि सति दिवः स्वर्गाद्वीनिर्ययो । कीदृश्याः । सजिष्णोरपि जिष्णुना शक्रेण
१-सी सी स्य च म. २ डी । शेप स्प. ३ ए कीर्तेस्त. ४ सी डी तां म'. ५ ए रिव.
-
१४