________________
[मूलराजः]
व्याश्रयमहाकाव्ये
१०४
नास्ति सांस्य तस्मिन्नसखौ सहायानपेक्ष इत्यर्थः । अस्मिन्नरपतौ मूलराजे वर्तमानान् गुणान् शौर्यादीन्कः पुमान्वक्तुं वर्णयितुमीश्वरः शक्तः । विष्णुसाम्येनास्य गुणानामानन्त्यान्न कोपीत्यर्थः । बहुपत्यावित्यत्रपतिशब्दो यद्यपि भुवनानामित्यपेक्षते तथाप्यस्य नित्यसापेक्षत्वेन तद्वितवृत्तिस्ततो भुवनानां बहुपत्यावित्यस्य नृपविशेषणत्वम् ॥
शुचिना । अमुना । इत्यत्र "टः पुंसि ना" [२४] इति ना ॥ पतो। विधा । इत्यम्र “डिडौं" [२५] इति डौः ॥
सख्यौ । पत्यौ । इत्यत्र “केवल" [२६] इत्यादिना-औः ॥ पताविति कश्चित् ॥ केवलग्रहणं किम् । असखौ । नरपतौ । एषु पूर्वेण डोरेव ॥ अन्ये तु बहुप्रत्ययपूर्वादपि पतिशब्दादाकारमेवेच्छन्ति । बहुपन्यौ ॥
हरेः सख्या भुवः पत्या सख्ये चास्पृहयालना । स्थितं रणेमुना पत्ये वृतश्चायं जयश्रिया ॥ १७ ॥
स्पृहयालुना निवः सख्या च ।
१७०. अमुना भुवः पत्या राज्ञा रणे स्थितं न कदाचिदपि नष्टमित्यर्थः । नन्वनेन मित्रसाहाय्यान्न नष्टं भविष्यतीत्याह । सख्ये मित्रायास्पृहयालुना निरपेक्षेण । नन्वस्य मित्रमेव न भविष्यत्यतो दैवेनैवास्पृहयालुः कृत इत्याह । हरेः सख्या च । सख्ये चेति चोप्यर्थो भिन्नक्रमे । नैकयागकरणेन स्वर्गस्य तर्पकत्वादिन्द्रस्य मित्रेणापि सख्यस्योभयनिछत्वादिन्द्रे मित्र सत्यपीत्यर्थः । एतेनातिपराक्रमित्वोक्तिः । नन्वेवं तर्हि शत्रशत्रज्वलनेस्य पतगायितं भविष्यति । नेत्याह । अयं राजा जयश्रिया पत्ये भत्रे घृतश्चात्मभीकृतश्चेत्यर्थः ।।
मित्रेणापि ,
रसी डीसा यस्य. २ सी डी तिडॉ. ३ एफ ‘च्छति । २. ४ एफ 'Nिwe'. ५ पफ मेनेफ. ६ ए "नापि प°