________________
[मूलराजः]
ब्याश्रयमहाकाव्ये
पूर्वे दैत्या बलिपायाः पूर्वाः कर्णादयो नृपाः ।
क्षमायां स्मारितास्त्यागक्रियाया अमुना किल ॥ १६१॥ १६१. किलेति सत्ये । अमुना राज्ञा त्यागक्रियाया दानाद्धेतोर्बलिप्रायाः । प्रायो बाहुल्यतुल्ययोः । बलिसदृशाः पूर्वेप्रेतना दैत्याः । तथा कर्णादयः कर्ण: कौरवपक्षीयो राजा तदादयो दधीचिजीमूतवाहनाद्याः पूर्वा नृपाश्च स्मारिताः स्मृतिपथमानीताः । बलिकर्णादिवददावित्यर्थः । घलिकर्णादयो हि लोके दानशौण्डत्वेन प्रसिद्धाः । यदुक्तम् ।
अतिदानाद्वलिर्वद्धः ॥ त्वचं कर्णः शिबिर्मासं जीवं जीमूतवाहनः ।
दो दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥ निस्त्रिंशे बहुखट्वायां रिपुकीलालपि व्यधात् ।
स्थानमेपोनुरक्तायाः क्रीडायै विजयश्रियः ॥ १६२ ॥ १६२. एष राजानुरक्तायाः शौर्यादिगुणैरावर्जिताया विजयश्रियः क्रीडायै विलासाय बहुखट्दायामीषदूनखटायां विस्तृततया पल्यकतुल्य निर्विशे खड्ने स्थानमावासं व्यधादत्तवान् । यतो रिपूणां कीलाल रुधिरं पिवति यस्तस्मिशत्रूच्छेदकै इत्यर्थः । शत्रूच्छेदकत्वादस्य खड़े विजयश्रीय॑वसदित्यर्थः । याप्यनुरक्ता ली स्यात्तस्या रतये पतिः खट्टायां स्थानं ददाति ॥ पूर्वे पूर्वाः। पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे। इत्येषु "नवभ्य" [१६]६
त्यादिना इस्मास्मिनो वा ॥
कीदार्य । क्रियायाः । अनुरकायाः । क्षमायाम् । इत्यत्र " आपा जिता
१बी लोका दा. २ सीसी नास्ति दे'. ३ एकत्वा. ४ एक इत्यत्र न .