________________
361
From Padmamandıra's Commentary पुनः पप्रच्छ देवेन्द्रो वर्षेऽस्मिन्को ऽपि भारते । एवं निगोदजीवानां वर्ल वेत्तौश किं न वा ॥ १३७ ॥ प्रभुः प्राह हरे वेत्ति वक्तुं तानार्यरक्षितः । कौतुकाइद्धविरेन्द्ररूपं कृत्वेन्द्र श्राययौ ॥ १३८ ॥ नत्वा स्वरूपं पप्रच्छ निगोदप्राणिनां हरिः । पाहार्यरक्षितः सम्यक् तच्छ्रुत्वेन्द्रो मुदं दधौ ॥ १३८ ॥ प्राहेन्द्रो भगवन्व्याधिर्मच्छरौरे महानयम् । ग्टलाम्यनशनं ब्रूत कियदायुर्विलोक्य मे ॥ १४ ॥ ततस्तै विकैरायुरस्य सम्बम्विलोकितम् । यावदर्षशतमेकमागाच्चैतच्छतद्वयम् ॥ १४ १ ॥ ततश्चिन्तितमाचार्यभरतो ऽयं न मानवः । विद्याधरो व्यन्तरो वा रूपं चक्रे ऽन्यथात्मना ॥ १४२ ॥ यावदर्षसहस्राद्यैरप्यन्तो ऽस्यायुषो नहि । तावद्दिसागरोपमप्रमाणं च तदागतम् ॥ १४३ ॥ ततो ऽस्य भवमुत्पाद्याचार्यैः प्रोक्तं भवान् हरिः । प्रोतः सौमन्धरकता प्रशंसां हरिरप्यवक् ॥ १४४ ॥ माहेन्द्रः परमप्रौत्या धन्या भारतभूरियम् । ईदृशस्य नृरत्नस्य यत्राभूदधुनोद्भवः ॥ १४५ ॥ इत्युत्ता गन्तुकामे ऽस्मिन्नाचार्याः प्राहुरुन्मुदः । प्रतौचस्व क्षणं शक यावदायान्ति साधवः ॥ १४६ ॥ ये ऽम्यिराः स्थिरता तेषां स्याद्रूते ऽद्यापि वासवाः । यदायान्तौति तच्छ्रुत्वा हरिरूचे प्रभून्प्रति ॥ १४७ ॥
-
-
ln MS मागावय। 145 AMS दधनोद्भव। 147 CMS यदयंनीतिला।