________________
360 From Padmamandira's Commentary स प्राह भगवन्नेत्यालापको मे चिरेण तत् । प्रसद्य वाचनाचार्यवर्यः कश्चित्प्रदीयताम् ॥ १२६ ॥ ततो दुर्बलिकापुष्यमित्रतत्रार्यरक्षितैः । श्रादिष्टो दत्तवान्सो ऽपि विन्ध्याय सूत्रवाचनाम् ॥ १२७ ॥ माह दुर्वलिकापुष्यमित्रो ऽन्येयुः प्रभून्प्रति । खामिन्नगणितं बन्धुपटहे विस्मरति श्रुतम् ॥ १२८ ॥ अतो मे नवमं पूर्व क्षयं यास्यत्यचिन्तितम् । हदि दध्यरथाचार्या श्रुतज्ञानाम्बुराशयः ॥ १२८ ॥ महामेधाविनो ऽप्यस्य श्रुतं चेद्यात्यचिन्तितम् । हा तर्हि का कथान्येषां स्वभावादम्पमेधसाम् ॥ १३० ॥ सानुग्रहो ऽथ शिष्येषु भगवानारक्षितः । अनुयोगं पृथक् चक्र चतुर्धा सूत्रगोचरम् ॥ १३१ ॥ कालिकश्रुतमेको ऽसौ द्वितीय ऋषिभाषितम् । हतीयः सूर्यप्रज्ञप्तिदृष्टिवादश्चतुर्थकः ॥ १३२ ॥ धारणाग्रहणामकिं वौच्यैव स कृपाधौः । कालदोषादनुयोगं चतुर्धा चकवान्पृथक् ॥ १३३ ॥
अथार्यरक्षिताचार्या यथा देवेन्द्रवन्दिताः । आसंस्तथोच्यते ऽन्येधुर्जग्मुस्ते मथुरापुरोम् ॥ १३४ ॥ तब भूतगुहाख्यस्य व्यन्तरस्य स्थिता रहे । दूतश्च प्राखिदेहे ऽगान्नमस्कत हरिर्जिनम् ॥ १३५ ॥ नत्वा पप्रच्छ देवेन्द्रो निगोदाङ्गिविचारणम् । सौमन्धरजिनेन्द्रो ऽपि तामाचख्यौ यथास्थितम् ॥ १३६ ॥
129 . MS दफरनाचार्या ।