________________
यार्थरक्षितपूर्वाधिगमः।
३१५
उपवज्रमुनि प्रातराययावार्यरचितः । ववन्दे द्वादशावर्तवन्दनेन च तं गुरुम् ॥ ६८ ॥ तं च पप्रच्छ वज्रर्षिः कुत श्रागा: म चावदत् । तोसलिपुत्राचार्याणां पादमूलादिहागमम् ॥ १ ० ० ॥ वज्रखाम्यन्नवौदार्यरक्षितस्त्र किमाख्यया । सो ऽप्याख्यादेवमिति च पुनर्वन्दनपूर्वकम् ॥१०१ ॥ वज्रखाम्यपि तं ज्ञात्वा सप्रसादमदो ऽवदत् । खागतं तव कुत्र त्वं प्रतिश्रयमशिश्रियः ॥ १०२॥ बहिरावासितो ऽस्मौति तेनोन खाम्यदो ऽवदत् । महात्मन्किं न जानामि बहिःस्थो ऽध्येष्यसे कथम् ॥१०३॥ सोमभूरभिधत्ते स्म खामिन्भिन्ने प्रतिश्रये । उदतारिषमाचार्यभद्रगुप्तानुशासनात् ॥१४॥ उपयोगेन वर्षिर्विदित्वैवमुवाच च । युक्तसेतद्धि पूज्यास्ते स्थविरा नाइरन्यथा ॥ १०५॥ वज्रो ऽथ पृथगावासस्थितमप्यार्थरचितम् । अध्यापयितुमारेभे पूर्वाणि प्रतिवासरम् ॥ १०६॥ अचिरेणापि कालेन मोमदेवभवो मुनिः । पर्वाण्यपूर्वप्रतिभो नवाधौयाय लीलया ॥१०७॥ दशमं पूर्वमध्येतुं प्रवृत्त चार्यरचितम् । दशमपूर्वयमकान्यधौव्वेत्यादिशगुरुः ॥१०८॥ ततो दशमपूर्वस्य वहनि विषमाणि च । अध्येतुं यमकान्यार्यरचितर्षिः प्रचक्रमे ॥१०८।।