________________
३१६
परिशिष्ठपर्वणि त्रयोदशः सर्गः । दूतश्च मंदिदिशतुः पितरावायरचितम् । नागच्छमि किमद्यापि विस्मृतास्तव किं वयम् ॥ ११ ॥ त्वं नः करिष्यस्युद्योतमिति ह्याशामकमहि । तवानागमने स पश्यामस्तु तमोमयम् ॥१११॥ एवमाझ्यमानो ऽपि सन्देशवचनेस्तयोः । यावदध्ययनासको ववले नार्यरक्षितः ॥११२॥ तावत्ताभ्यां तमाहात्मनोभ्यां फल्गरक्षितः । प्राणप्रियो ऽनुजस्तस्य प्रैषि निर्वन्धशिक्षया ॥११३॥युग्मम् ॥ द्रुतं गला च नवा च सो ऽवादौदार्यरक्षितम् । किमेवं कठिनो ऽभूखमनुत्कण्ठः कुटुम्बके ॥११४॥ वैराग्यपना छिन्नं यद्यपि प्रेमबन्धनम् । तथापि तव कारुण्यमस्ति स्वस्तिनिवन्धनम् ॥११॥ शोकपकनिमग्नो ऽस्ति बन्धुवर्गश्च साम्प्रतम् । तदागत्य तमुद्धत भगवंस्तव साम्यतम् ॥११६॥ इति तेनानुजेनोको गन्तुं तत्रार्यरक्षितः । श्रीवज्रवामिनं नवा पप्रच्छ स्वच्छमानमः ॥ ११ ॥ अधौव्वेति ततस्तेन प्रत्युक्तः स पुनः पठन् । किं वे ऽस्मि विस्मृतः फल्गुरक्षितेनेत्यजल्यत ॥११॥ बान्धवाश्च परिव्रज्यामनोरथरथस्थिताः । न कुत्रापि प्रवर्तन्ते त्वया सारथिना विना ॥११॥ तदैहि देहि प्रव्रज्यां जगत्पूज्यां खगोत्रिणाम् । श्रेयस्यपि सकणे ऽपि किमद्यापि प्रमाद्यसि ॥१२० ॥