________________
आर्यरक्षितव्रतग्रहणं । मो ऽप्युवाच परिव्रज्यामिदानीमपि दत्त मे। मया न दुष्करा ह्येषा मन्मनोरथकामधुक् ॥७७॥ किं तु प्रमादं कुर्वाणैर्भगवद्भिर्निजे शिशौ । विहारक्रमजं कष्टमादृत्यान्यत्र गम्यताम् ॥७८॥ मामत्र स्थितवन्तं हि राजा पुरजनो ऽपि च । अत्यन्तमनुरागेण प्रव्रज्यां त्याजयेदपि ॥७८ ॥ श्राचार्या अपि तस्योपरोधेन सपरिच्छदाः । ययुरन्यत्र मो ऽप्यग्रे स्थितो याति स्म मृत्यवत् ॥८॥ तीर्थ श्रीवर्धमानस्य तदानीमनगारिणाम् । शिव्यचौर्यव्यवहारः प्रथमो ऽयमवर्तत ॥१॥ तदार्यरक्षितं भट्टमाचार्या पर्यविव्रजन् । माक्षीकृतगुरुश्चाहौतार्थः सो ऽचिरादपि ॥८२॥ तप्यमानस्तपस्तौवं महमानः परोषहान् । मादकावदधौयाय सो ऽङ्गान्येकादशापि हि ॥८॥
तेषामाचार्यमिश्राणां दृष्टिवादः परिस्फुटः । यावान्वभूव तावन्तमग्रहौदार्यरक्षितः ॥८४॥ तदा वृद्धजनोक्त्यैवमश्रौषौदार्यरचितः । यस्यान्दष्टिवादो ऽस्ति वज्रर्षः साम्प्रतं स्फुटः ॥८५॥ अभ्च समवस्तः पुर्या वज्रमुनिस्तदा । । इति प्रतम्ये तत्रैव गन्तुं सोमात्मजो मुनिः ॥८६॥ ययौ चोजयिनौमध्ये भगवानार्यरचितः । भद्रगुप्ताभिधानानामाचार्याणां प्रतिश्रयम् ॥८॥