________________
३१२
परिशिपर्वणि त्रयोदशः सर्गः ।
निषणं मोमतनयं तमवन्दितढड्डरम् । प्राचार्या विविदुः कोऽपि श्राद्धो ऽय नूतनः खल ॥१६॥ धर्मलाभाभिषं दत्त्वा शरदम्भोमलाशयाः । पृच्छन्ति स्म तमाचार्याः कुतो धर्मागमस्तव ॥६॥ औरसो रुद्रमोमायाः स जगाद यथातथम् । श्रमणोपासकादमादात्तधर्मो ऽस्मि नान्यतः ॥६॥ ऊचिरे साधवो ऽप्येवं भगवन्नार्यरक्षितः । तनयो रुद्रमोमाया विद्वान्विद्याब्धिपारगः ॥६६॥ चतुर्दशविद्यास्थानोपाध्यायः पृथिवीभुजा । करिस्कन्धाधिरूढो ऽयं पत्तने ऽस्मिन्प्रवेभितः ॥७॥ अयमाद्यगुणस्थानस्थितानां धुरि गण्यते । आश्चर्य श्रावकाचारं परिस्पृशति कि बदः ॥७१॥ अथार्यरक्षितः माह श्रावको ऽस्मि हि सन्मति । किं नवो न भवेद्भावपरिणामः शरीरिणाम् ॥७२॥ इति विज्ञपयामास चाचार्यान्रचिताञ्जलिः । दृष्टिवादाध्यापनेन भगवस्वं प्रौद मे ॥७३॥ मया विवेकहीनेनोन्मत्तेनेव दुरात्मना । हिंमोपदेशक सर्वमधीतं नरकावहम् ॥ ४॥ श्राचार्या अपि तं शान्तं योग्यं ज्ञात्वैवमूचिरे । यदि त्वं दृष्टिवादाधिजिगांसुस्तत्परिव्रज ॥२५॥ किं चान्यदप्युपात्तायां प्रवज्यायां द्विजोत्तम । दृष्टिवादं क्रमेण त्वं विदन्नध्यापयिष्यसे ॥ ७६ ॥