________________
आर्यरक्षितव्रतग्रहणं ।
३११ गत्वा चेक्षुग्टहद्वारे स्थिरधौरार्यरक्षितः । अचिन्तयद विज्ञातः कथमन्तर्विशाम्यहम् ॥५५॥ राज्ञामिव गुरूणां हि सन्निधाने यतस्ततः । विदितो ऽपि नोपसर्पदहं तु विदितो ऽपि न ॥५६॥ तदनैव क्षणं स्थित्वा वसत्यन्तर्विशाम्यहम् । प्रातर्वन्दनकायातश्रमणोपासकैः सह ॥५७॥ इत्यार्यरक्षितस्तस्थौ द्वारे ऽपि द्वारपालवत् । विदुषां रभसारन्भे विवेको हर्गलायते ॥५८॥ मालवकैशिकौमुख्ययामरागपरिस्पृशा । खाध्यायेनापि माधूनां म ययौ लयमेणवत् ॥५८ ॥ तत्रागाड्डट्टरो नाम श्रमणोपामकः प्रगे । वन्दनाय महर्षीणां हर्षणोत्फुललोचनः ॥ ६ ॥ म त्रिनै षेधिकौं कुर्वन्प्रविवेश प्रतिश्रयम् । अथैयांपथिकौं प्रत्यक्रामदुच्चैस्तरखरम् ॥६१॥ तदनन्तरमाचार्यान्साधूनपि यथाविधि । वन्दित्वा निषमादाये विष्टरं प्रतिलिख्य म: ॥६॥ अथार्यरचितो धौमाम्तेन साधं प्रविश्य मः । वन्दनर्यापथिक्यादि तमाच्छ्रुतमधारयत् ॥६३ ॥ तद्दर्शितविधि चाभिनयन्पठनपूर्वकम् । अवन्दताचार्यपादान्साधूनप्यार्यरक्षितः ॥६४ ॥ ढट्टरश्रावकं त्वार्यरक्षितो नावन्दत । सुधौरपि निराम्नायं कियद्विजातमौवरः ॥६५॥