________________
परिशिडपर्वणि त्रयोदशः सर्गः ।
कर्पूरपालिकामिश्रताम्बूललटभाननः । विशदच्छत्तमौकमौलिः स्वसदनं ययौ ॥२२॥
॥ त्रिभिर्विशेषकम् ॥ स श्रादावेव विनयौ मातुः पादानवन्दत । कण्ठावलम्बिमौवर्णश्टङ्खलानिष्टभूतलः ॥२३॥ दौर्घायुरक्षयो भूयाः स्वागतं तव दारक । इत्युक्त्वा सावदत्नातिवेसिकौवापरं नहि ॥२४॥ स पुत्रप्रेमसरम्भोचितसंलापलक्षणम् । प्रसादं पूर्ववन्मातरपश्यनिदमब्रवीत् ॥२५॥ अधौताशेषविद्यो ऽहं त्वत्पादान्द्रष्टुमागमम् । किं नालपसि मां भक्तिमर्यादामकराकरम् ॥२६॥ मम पूजां करोत्येष राजा राजगुरोरिव । महिमानमिमं सूनोदृष्ट्वा किं नहि हयमि ॥२७॥ रुद्रसोमावदद्भद्र कि विद्योपार्जनेन ते ।' हिंसोपदेशक ह्येतदधौतं नरकप्रदम् ॥२८॥ दृष्ट्वा नरकपाताभिमुखं वां कुक्षिसम्भवम् । कथं हृय्यामि मनास्मि खेदे गौरिव कर्दमे ॥२६॥ यदि वं मयि भक्तो ऽसि यदि मां मन्यसे हिताम् । दृष्टिवादं तदधौष्व हेतु स्वर्गापवर्गयोः ॥३०॥ इत्यार्यरक्षितो दयौ किमधीतमिदं मया । न यन्मातः प्रमोदाय तज्जया सम्पदापि किम् ॥३१॥ विमृश्यैवमुवाचाम्बामार्यधौरार्यरक्षितः । दृष्टिवादं पठिष्यामि मातराख्याहि तगुरुम् ॥३२॥